उग्रसेने यथा कंसः सुदुरात्मा च वर्त्तते। यं चैवार्थं समुद्दिश्य स ससेन विसर्ज्जितः ।। ५-१८-
तत् सर्व्वं विस्तराच्छ्रु त्वा भगवान् केशिसूदनः । उवाचाखिलमप्येतजूज्ञातं दानपते!मया ।। ५-१८-
करिष्ये च महाभाग!यदत्रौपयिकं मतम् । विचिन्त्यं नान्यथैतत् ते विद्धि कंसं हतं मया ।। ५-१८-
अहं रामश्व मथुरा श्वो यास्यावः समं त्वया । गोपवृद्धाश्व यास्यन्ति आदायोपायनं बहु ।। ५-१८-
निशेयं नीयतां वीर!न चिन्तां कर्त्तुमर्हसि । त्रिरात्राभ्यन्तरे कंसं हनिष्यामि सहानुगम ।। ५-१८-
समादिश्य ततो गोपानक्रु रोऽपि सकेशवः । सुष्वाप बलभद्रश्व नन्दगोपगृहे सुखम् ।। ५-१८-
ततः प्रभाते विमले कृष्ण-रामौ महामती । अक्रूरेण समं गन्तुमुद्यतौ मथुरां प्रित ।। ५-१८-
दृष्ट्वा गोपीजनः सास्त्रः श्लथदूवलयबाहुकः । निः श्वस्य चातिदुः खार्त्तः प्राह चेदं परस्परम् ।। ५-१८-
मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति । नागरस्त्री-कलालापमधु श्रोत्रेण पास्यति ।। ५-१८-
विलासिवाक्यपानेषु नागरीणां कृतास्पदम् । चित्तमस्य कथ भूयो ग्राम्यगोपीषु यास्यति ।। ५-१८-
सारं समस्तगोष्ठस्य विधिना हरता हरिम् । प्रह्टतं गोपयोषितूसु निर्गुणेन दुरात्मना ।। ५-१८-
भावगर्भस्मितं वाक्यं विलासललिता गतिः । नागरीणामतीवैतत् कटाक्षैक्षितमेव च ।। ५-१८-
ग्राम्यो हरिरयं तासां विलासनिगड़ैर्युतः । भवतीनां पुनः पाश्व कया युत्तया समेष्यति ।। ५-१८-
एषैष रथमारुह्य मथुरां याति केशवः । क्रूरेणाक्रू रकेणात्र निराशेन प्रतारितः ।। ५-१८-
किं न वेत्ति नृशंसोऽत्र अनुरागपरं जनम् । येनेममक्ष्णोराह्लादं नयत्यन्यत्र नो हरिम् ।। ५-१८-
एश रामेण सहितः प्रयात्यत्यन्तनिर्घृणः । रथमारुह्य गोविन्दस्त्वर्य्यतामस्य वारणो ।। ५-१८-
गुरूणामग्रतो वक्तुं किं ब्रवपीषि न नः क्षमम् । गुरवः किं करिष्यन्ति दग्धानां विरहाग्रिना ।। ५-१८-
नन्दगोपमुखा गोपा गन्तुमेते समुद्यताः । नोद्यमं कुरुते कश्विदू गोविन्दविनिवर्त्तने ।। ५-१८-
सुप्रभाताद्य रजनी मथुरावासियोषिताम् । पास्यन्त्यच्युतवक्ताब्जां यासां नेत्रालिपङूक्तयः ।। ५-१८-
धन्यास्ते पथि ये कृष्णामितो यान्त्यनिवारिताः । उदूहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ।। ५-१८-
मथुरानगरीपौरनयनानां महोतूसवः । गोविन्दावयवैर्दृष्टरतीवाद्य भविष्यति ।। ५-१८-
को नु स्वप्रः सुभाग्याभिर्दृष्टस्ताभिरधोक्षजम् । विस्तारिकान्तिनयना या द्रक्ष्यन्त्यनिवारितम् ।। ५-१८-
अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् । उद्धृतान्यत्र नेत्राणि विधात्राकरुणात्मना ।। ५-१८-
अनुरागेण शैथिल्यमस्मासु व्रजता हरेः ! शैथिल्यमुपयान्त्याशु करेषु वलयान्यपि ।। ५-१८-
अक्रूरः क्रूरह्टदयः शीघ्र प्रेरयते हयान् । एवमार्त्तासु योषित्सु घृणा कस्य न जायते ।। ५-१८-
हा हा कृष्णरथस्योच्चैश्व क्ररेणुर्निरीक्ष्यताम् । दूरीकृतो हरिर्येन सोऽपि रेणुर्न लक्ष्यते ।। ५-१८-
इत्येवमतिहार्द्दन गोपीजननिरीक्षितः । तत्याज व्रजभूभागं सह रामेण केशवः ।। ५-१८-
गच्छन्तो जविताश्वेन रथेन यमुनातटम् । प्राप्ता मध्याह्नसमये रामाक्रू रजनार्द्दनाः ।। ५-१८-
अथाह कृष्णमक्रूरो भवद्भयां तावदास्यताम् । यावत् करोमि कालिन्द्यामाह्निकार्हणमम्भसि ।। ५-१८-
तथेत्युक्तं ततः स्त्रातः स्वाचान्तः स महामतिः । दध्यौ ब्रह्म परं विप्र!प्रविश्य यमुनाजले ।। ५-१८-