येनाग्रिविद्यु दूरविरश्मिमाला करालमत्युग्रनानां नयनाञ्जनानि ।। ५-१७-
यत्राम्बु विन्यस्य बलिर्म्मनोज्ञा नवाप भोगान् वसुधातलस्थः । तथामरत्वं त्रिदशाधिपत्यं मन्वन्तरं पूर्णमपेतशत्रुः ।। ५-१७-
अप्येष मां कंसपरिग्रहेण दोषास्पदीभूतमदोषदुष्टम् । कर्त्तावमानोपहतं धिगस्तु तज्जन्मनः साधुबहिष्कृतं यत् ।। ५-१७-
ज्ञानात्मकस्यामलसत्त्वराशेरपेतदोषस्य सदा स्फुटस्य किं वा जगत्यत्र समस्तपुंसामज्ञातमस्यास्ति ह्टदि स्थितस्य ।। ५-१७-
तस्मादहं भक्तिविनम्रचेता व्रजामि सर्व्वेश्वरमीश्वराणाम् । अंशावतारं पुरुषोत्तमस्य अनादिमध्यान्तमयस्य विष्णोः ।। ५-१७-
चिन्तयन्निति गोविन्दमुपागम्य स यादवः । अक्रूरोऽस्मीति चरणौ ननाम शिरसा हरेः ।। ५-१८-
सोऽप्येनं ध्वजवज्राब्ज-कृतचिह्नने पाणिना । संस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वजे ।। ५-१८-
कृतसंवादनौ तेन यथावदू बल-केशवौ । ततः प्रविष्टौ संह्टष्टौ तमादायात्ममन्दिरम् ।। ५-१८-
सह ताभ्यां तदाक्रूरः कृतसंवादनादिकः । भुक्तभोज्यो यथान्यायमाचचक्षे ततस्तयोः ।। ५-१८-
यथा निर्भर्तूस्यते तेन कसेनानकदुन्दुभिः । यथा च देवकी देवी दानवेन दुरात्मना ।। ५-१८-
उग्रसेने यथा कंसः सुदुरात्मा च वर्त्तते। यं चैवार्थं समुद्दिश्य स ससेन विसर्ज्जितः ।। ५-१८-
तत् सर्व्वं विस्तराच्छ्रु त्वा भगवान् केशिसूदनः । उवाचाखिलमप्येतजूज्ञातं दानपते!मया ।। ५-१८-
करिष्ये च महाभाग!यदत्रौपयिकं मतम् । विचिन्त्यं नान्यथैतत् ते विद्धि कंसं हतं मया ।। ५-१८-
अहं रामश्व मथुरा श्वो यास्यावः समं त्वया । गोपवृद्धाश्व यास्यन्ति आदायोपायनं बहु ।। ५-१८-
निशेयं नीयतां वीर!न चिन्तां कर्त्तुमर्हसि । त्रिरात्राभ्यन्तरे कंसं हनिष्यामि सहानुगम ।। ५-१८-
समादिश्य ततो गोपानक्रु रोऽपि सकेशवः । सुष्वाप बलभद्रश्व नन्दगोपगृहे सुखम् ।। ५-१८-
ततः प्रभाते विमले कृष्ण-रामौ महामती । अक्रूरेण समं गन्तुमुद्यतौ मथुरां प्रित ।। ५-१८-
दृष्ट्वा गोपीजनः सास्त्रः श्लथदूवलयबाहुकः । निः श्वस्य चातिदुः खार्त्तः प्राह चेदं परस्परम् ।। ५-१८-
मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति । नागरस्त्री-कलालापमधु श्रोत्रेण पास्यति ।। ५-१८-
विलासिवाक्यपानेषु नागरीणां कृतास्पदम् । चित्तमस्य कथ भूयो ग्राम्यगोपीषु यास्यति ।। ५-१८-
सारं समस्तगोष्ठस्य विधिना हरता हरिम् । प्रह्टतं गोपयोषितूसु निर्गुणेन दुरात्मना ।। ५-१८-
भावगर्भस्मितं वाक्यं विलासललिता गतिः । नागरीणामतीवैतत् कटाक्षैक्षितमेव च ।। ५-१८-
ग्राम्यो हरिरयं तासां विलासनिगड़ैर्युतः । भवतीनां पुनः पाश्व कया युत्तया समेष्यति ।। ५-१८-
एषैष रथमारुह्य मथुरां याति केशवः । क्रूरेणाक्रू रकेणात्र निराशेन प्रतारितः ।। ५-१८-
किं न वेत्ति नृशंसोऽत्र अनुरागपरं जनम् । येनेममक्ष्णोराह्लादं नयत्यन्यत्र नो हरिम् ।। ५-१८-
एश रामेण सहितः प्रयात्यत्यन्तनिर्घृणः । रथमारुह्य गोविन्दस्त्वर्य्यतामस्य वारणो ।। ५-१८-
गुरूणामग्रतो वक्तुं किं ब्रवपीषि न नः क्षमम् । गुरवः किं करिष्यन्ति दग्धानां विरहाग्रिना ।। ५-१८-
नन्दगोपमुखा गोपा गन्तुमेते समुद्यताः । नोद्यमं कुरुते कश्विदू गोविन्दविनिवर्त्तने ।। ५-१८-
सुप्रभाताद्य रजनी मथुरावासियोषिताम् । पास्यन्त्यच्युतवक्ताब्जां यासां नेत्रालिपङूक्तयः ।। ५-१८-
धन्यास्ते पथि ये कृष्णामितो यान्त्यनिवारिताः । उदूहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ।। ५-१८-