भोक्तव्यं तैश्च तच्चित्तैर्मौनिभिः सुमुखैः सुखम् । अक्रुद्ध्यता चात्वरता देयं तेनापि भक्तितः
रक्षोघ्नमन्त्रपठनं भूमेरास्तरणं तिलैः । कृत्वा ध्येयाः स्वपितरस्त एव द्विजसत्तमाः
पिता पितामहश्चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः
पिता पितामहश्चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्वद्य होमाप्यायितमूर्तयः
पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु पिष्डेन मया दत्तेन भूतले
पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु मे भक्त्या मयैतत्समुदाहृतम्
मातामहस्तृप्तिमुपैतु तस्य तथा पिता तस्य पिता ततोऽन्यः । विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः
यज्ञेश्वरो हव्यसमस्तकव्य-भोक्ताव्ययात्वा हरीरीश्वरोऽत्र । तत्सन्निधानादपयान्तु सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वै
तृप्तिष्वेतेषु विकिरेदन्नं विप्रेषु भूतले । दद्यादाचमनार्थाय तेब्यो वारि सकृत्सकृत्
सुतृप्तैस्तैरनुज्ञातः सर्वेणान्नेन भूतले । सतिलेन ततः पिम्डान् सम्यग्दद्यात्समाहितः
पितृतीर्थेन सतिलं तथैव सलिलाञ्जलिम् । मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत्
दीक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजितम् । स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ
पितामहाय चैवान्यं तत्पित्रे च तथापरम् । दर्भभूले लेपभुजः प्रीणयेल्लेपघर्षणैः
पिण्डैर्मातामहांस्तद्वद् गन्धमाल्यादिसंयुतैः । पूजयित्वा द्विजाग्र्याणां दद्याच्चाचमनं ततः
पितृभ्यः प्रथमं भक्त्या तन्मनस्को नरेश्वर । सुस्वधेत्याशिषा युक्तां दद्याच्छक्त्या च दिक्षिणाम्
दत्त्वा च दक्षिणां तेभ्यो वाचयेद्वैश्वदेविकान् । प्रीयन्तामिह ये विश्वेदेवास्तेन इतीरयेत्
तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तथाशिषः । पश्वाद्विसर्जयेद् दिवान् पूर्वं पित्र्यान्महीपते
मातामहानामप्येवं सह देवैः क्रमः स्मृतः । भोजने ज ण्वशक्त्या च दाने तद्वद्विसर्जने
आपादशौचनात् पूर्वं कुर्याद् देवद्विजन्मसु । विसर्जनं तु प्रथमं पैत्रमातामहेषु वै
विसर्जयेत् प्रीतिवचः सम्मानाभ्यचितांस्ततः । निवर्त्तेताभ्यनुज्ञात आद्वारं ताननुव्रजेत्
ततस्तु वैश्वदेवाख्यं कुर्यान्नित्यक्रियां बुधः । भुञ्जीयाच्च समं पूज्यभृत्यबन्धुभिरात्मनः
एवं श्राद्धं बुधः कुर्यात्पित्र्यं मातामहं तथा । श्राद्धैराप्यायिता दद्युः सर्वान् कामान् पितामहाः
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । रजतस्य तथा दानं कथासङ्कीर्तनादिकम्
वर्ज्यानि कुर्वता श्राद्धं क्रोधोऽध्वगमनं त्वरा । भोक्तुरप्यत्र राजेन्द्र त्रयमेतन्न शस्यते
विश्वेदेवाः सपितरस्तथा मातामहा नृप । कुलं चाप्यायते पुंसां सर्वं श्राद्धं प्रकुर्वताम्
सोमाधारः पितृगणो यागाधारश्च चन्द्रमाः । श्राद्धे योगिनियोगस्तु तस्माद्भूपाल शस्यते
सहस्त्रस्यापि विप्राणां यौगी चेत्पुरतः स्थितः । सर्वान् भोक्तॄंस्तारयति यजमानं तथा नृप
(श्राद्धकर्मणि विहिताविहितवस्तूनां विचारः) और्व उवाच हविष्यमत्स्यमांसैस्तु शशस्य नकुलस्य च । सौकरच्छागलैणेयरौरवैर्गवयेन च
औरभ्रगव्यैश्च तथा मासवृद्ध्या पितामहाः । प्रयान्ति तृप्तिं मांसैस्तु नित्यं वाध्रीणसामिषैः
खड्गमांसमतीवात्र कालशाकं तथा मधु । शस्तानि कर्मण्यत्यन्ततृप्तिदानि नरेश्वर