नारदे गते कृष्णस्सह गोपैस्सभाजितः । विवेश गोकुलं गोपीनेत्रपानैकभाजनम्
अक्रूरोऽपि विनिष्कम्य स्यन्दनेनाशुगामिना । कृष्णसन्दर्शनायैकः प्रययौ नन्दगोकुलम् ।। ५-१७-
चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया । योऽहमंशावतीर्णास्य मुखं द्रक्ष्यामि चक्रिणः ।। ५-१७-
अद्य मे सफलं जन्म सुप्रभाता च मे निशा । यदुन्नदाब्जपत्राक्षं विष्णोद्र क्ष्याम्यहं मुखम् ।। ५-१७-
अद्य मे सफले नेत्रे अद्य मे सफला गिरः । यन्मे परस्परालापो दृष्ट्वां विष्णुं भविष्यति ।। ५-१७-
पापं हरति यत् पुंसां स्मृतं सङ्कल्पनामयम् । तत् पुण्डरीकनयनं विष्णोद्र क्ष्याम्यहं मुखम् ।। ५-१७-
निर्जग्मुश्व यतो वेदा वेदाङ्गन्यखिलानि च । द्रक्ष्यामि तत्प्रं धाम धाम्रां भगवतो मुखम् ।। ५-१७-
यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः । इच्यते योऽखिलाधारस्तं द्रक्ष्यामि जगत्पातिम ।। ५-१७-
इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् । अवाप तमन्नादिमहं द्रक्ष्यामि केशवम् ।। ५-१७-
न ब्रह्मा नेन्द्र-रुद्रा-श्वि-वस्वा-दित्य-मरुदूगणाः । यस्य स्वरूपं जानन्ति स्प्रक्ष्यत्यङ्ग स मे हरिः ।। ५-१७-
सर्व्वात्मा सर्व्ववित् सर्व्वः सर्व्वभूतेष्ववस्थितः । यो वितत्यात्ययो व्यापी स वक्ष्यति मया सह ।। ५-१७-
मत्स्य-कूर्म-पराहा-श्व-सिंहरूपादिभिः स्थितिम् । चकार जगतो योऽजः सोऽद्य मामालपिष्यति ।। ५-१७-
साम्प्रतञ्च जगत्स्वामी कार्य्यमात्मह्टदि स्थितम् । कर्त्तु मनुष्यतां प्राप्तः स्वेच्छादेहधृगव्ययः ।। ५-१७-
योऽनन्तः पृथिवीं धत्ते शेखरस्थितिसंस्थिताम् । सोऽवतीर्णो जगत्यर्थे मामक्रूरेति वक्ष्यति ।। ५-१७-
पितृ-पुत्र-सुह्टदू-भ्रातृ-मातृ-बन्धुमयीमिमाम् । यन्मायां नालमुत्तर्त्तु जगत् नमो नमः ।। ५-१७-
तरत्यविद्यां विततां ह्टदि यस्मिन् निवेशिते । योगी मायाममेयाय तस्मै विद्यात्मने नमः ।। ५-१७-
यज्विभिर्यज्ञपुरुषो वासुदेवश्व सात्वतैः । वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोऽस्मि तम् ।। ५-१७-
यथा तत्र जगद्धाम्रि धातर्य्योतत् प्रतिष्ठितम् । सदसत् तेन सत्येन मय्यसौ यातु सौम्यताम् ।। ५-१७-
स्मृते सकलकल्याण-भाजनं यत्र जायते । पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ।। ५-१७-
इत्थं सञ्चिन्तयन् विष्णु भक्तिनम्रात्ममानसः । अक्रूरो गोकुल प्राप्तः किञ्चित् सूर्य्ये विराजति ।। ५-१७-
स ददर्श तदा तत्र कृष्णामादोहने गवाम् । वत्समध्यगतं फुल्लनीलोतूपलदलच्छविम् ।। ५-१७-
अस्पष्टपद्मपत्राक्षं श्रीवत्साङ्कितवक्षसम । प्रलम्बबाहुमायामि-तुङ्गोरःस्थलमुन्नसम् ।। ५-१७-
सविलासस्मिताधारं ब्रिभ्राणं मुखपङ्कजम् । तुङ्गरक्तनखं पद्भयां धरण्यां सुप्रतिष्ठितम् ।। ५-१७-
विभ्राणं वाससी पीते वन्यपुष्पावभूषितम् । साद्रनीललताहस्तं सिताम्भोजावतंसकम् ।। ५-१७-
हंसकुन्देन्दुधवल नीलाम्बरधरं द्रिज! तस्यानु बलभद्रञ्च ददर्श यदुनन्दनम् ।। ५-१७-
प्राशुमुन्नतबाह्व सं विकाशिमुखपङ्कजम् । मेघमालापरिवृतं कैलासद्रिमिवापरम् ।। ५-१७-
तौ दृष्ट्वा विकसदूक्तसरोजः स महामतिः । पुलकाञ्चितसर्व्वाङ्गस्तदाक्रू रोऽभवन्मुने ।। ५-१७-
एतत् तत् परमं घाम तदेतत् परमं पदम् । भगवद्रासुदेवांशो द्रिधा योऽयमवस्थितः ।। ५-१७-
साफल्यमक्ष्णोर्युगमेतदत्र दृष्टे जगद्धातरि यातमुच्चेः । अप्यङ्गमेतदू भगवतूप्रसादांदू दत्तेऽङ्गसङ्ग फलवन्मम स्यात ।। ५-१७-
अप्येष पूष्ठे मम हस्तपद्म करिष्यति श्रीमदनन्तमूर्त्तिः । यस्याङ्ग लिस्पर्शहताखिलाघैखाप्यते सिद्धिरनाशदोषा ।। ५-१७-