इत्युक्त्वाऽस्फोट्य गोविंदः केशिनस्संमुखं ययौ । विवृतास्यश्च सोप्येनं दैतेयाश्व उपाद्रवत्
बाहुमाभोगिनं कृत्वा मुखे तस्य जनार्दनः । प्रवेशयामास तदा केशिनो दुष्टवाजिनः
केशिनो वदनं तेन विशता कृष्णबाहुना । शातिता दशनाः पेतुः सिताब्भ्रावयवा इव
कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विज । विनाशाय यथा व्याधिरासंभूतेरुपेक्षितः
विपाटितोष्ठो बहुलं सफेनं रुधिरं वमन् । सोक्षिणी विवृते चक्रे विशिष्टे मुक्तबंधने
जघान धरणीं पादैश्शकृन्मूत्रं समुत्सृजन् । स्वेदार्द्र गात्रश्शांतश्च निर्यत्नस्सोऽभवत्तदा
व्यादितास्यमहारंध्रस्सोऽसुरः कृष्णबाहुना । निपातितो द्विधा भूमौ वैद्युतेन यथा द्रुमः
द्विपादे पृष्ठपुच्छार्द्धे श्रवणैकाक्षिनासिके । केशिनस्ते द्विधा भूते शकले द्वे विरेजतुः
हत्वा तु केशिनं कृष्णो गोपलैर्मुदितैर्वृतः । अनायस्ततनुस्स्वस्थो हसंस्तत्रैव तस्थिवान्
ततो गोप्यश्च गोपाश्च हते केशिनि विस्मिताः । तुष्टुवुः पुंडरीकाक्षमनुरागमनोरमम्
अथाहांतर्हितो विप्र नारदो जलदे स्थितः । केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः
साधुसाधु जगन्नाथ लीलयैव यदच्युत । निहतोऽयं त्वया केशी क्लेशदस्त्रिदिवौकसाम्
युद्धोत्सुकोहमत्यर्थं नरवाजिमहाहवम् । अभूतपूर्वमन्यत्र द्रष्टुं स्वर्गादिहागतः
कर्माण्यऽत्रावतारे ते कृतानि मधुसूदन । यानि तैर्विस्मितं चेतस्तोषमेतेन मे गतम्
तुरंगस्यास्य शक्रोपि कृष्ण देवाश्च बिभ्यति । धुतकेसरजालस्य ह्रेषतोऽभ्रावलोकिनः
यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन । तस्मात्केशवनाम्ना त्वं लोके ख्यातो भविष्यसि
स्वस्त्यस्तु ते गमिष्यामि कंसयुद्धेऽधुना पुनः । परश्वोऽहं समेष्यामि त्वया केशिनिषूदन
उग्रसेनसुते कंसे सानुगे विनिपातिते । भारावतारकर्त्ता त्वं पृथिव्या पृथिवीधर
तत्रानेकप्रकाराणि युद्धानि पृथिवीक्षिताम् । द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन
सोऽहं यास्यामि गोविंद देवकार्यं महत्कृतम् । त्वयैव विदितं सर्वं स्वस्ति तेऽस्तु व्रजाम्यहम्
नारदे गते कृष्णस्सह गोपैस्सभाजितः । विवेश गोकुलं गोपीनेत्रपानैकभाजनम्
अक्रूरोऽपि विनिष्कम्य स्यन्दनेनाशुगामिना । कृष्णसन्दर्शनायैकः प्रययौ नन्दगोकुलम् ।। ५-१७-
चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया । योऽहमंशावतीर्णास्य मुखं द्रक्ष्यामि चक्रिणः ।। ५-१७-
अद्य मे सफलं जन्म सुप्रभाता च मे निशा । यदुन्नदाब्जपत्राक्षं विष्णोद्र क्ष्याम्यहं मुखम् ।। ५-१७-
अद्य मे सफले नेत्रे अद्य मे सफला गिरः । यन्मे परस्परालापो दृष्ट्वां विष्णुं भविष्यति ।। ५-१७-
पापं हरति यत् पुंसां स्मृतं सङ्कल्पनामयम् । तत् पुण्डरीकनयनं विष्णोद्र क्ष्याम्यहं मुखम् ।। ५-१७-
निर्जग्मुश्व यतो वेदा वेदाङ्गन्यखिलानि च । द्रक्ष्यामि तत्प्रं धाम धाम्रां भगवतो मुखम् ।। ५-१७-
यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः । इच्यते योऽखिलाधारस्तं द्रक्ष्यामि जगत्पातिम ।। ५-१७-
इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् । अवाप तमन्नादिमहं द्रक्ष्यामि केशवम् ।। ५-१७-
न ब्रह्मा नेन्द्र-रुद्रा-श्वि-वस्वा-दित्य-मरुदूगणाः । यस्य स्वरूपं जानन्ति स्प्रक्ष्यत्यङ्ग स मे हरिः ।। ५-१७-