दमिते कालिये नागे भग्ने तुंगद्रु मद्वये । हतायां पूतनायां च शकटे परिवर्त्तिते
कंसाय नारदः प्राह यथावृत्तमनुक्रमात् । यशोदादेवकीगर्भपरिवृत्ताद्यश्षोतः
श्रुत्वा तत्सकलं कंसो नारदाद्देवदर्शनात् । वसुदेवं प्रति तदा कोपं चक्रे सुदुर्मतिः
सोतिकोपादुपालभ्य सर्वयादवसंसदि । जगर्ह यादवांश्चैव कार्यं चैतदचिंतयत्
यावन्न बलमारूढौ रामकृष्णौ सुबालकौ । तावदेव मया वध्यावसाध्यौ रूढयौवनौ
चाणूरोत्र महावीर्यो मुष्टिकश्च महाबलः । एताभ्यां मल्लयुद्धेन मारयिष्याम दुर्मती
धनुर्महमहायोगव्याजेनानीय तौ व्रजात् । तथा तथा यतिष्यामि यास्येते संक्षयं यथा
श्वफल्कतनयं शूरमक्रूरं यदुपुंगवम् । तयोरानयनार्थाय प्रेषयिष्यामि गोकुलम्
वृंदावनचरं घोरमादेक्ष्यामि च केशिनम् । तत्रैवासावतिबलस्तावुभौ घातयिष्यति
गजः कुवलायापीडो मत्सकाशमिहागतौ । घातयिष्यति वा गोपौ वसुदेवसुतावुभौ
श्रीपराशर उवाच। इत्यालोच्य स दुष्टात्मा कंसो रामजनार्दनौ । हंतुं कृतमर्तिवीरावक्रूरं वाक्यमब्रवीत्
कंस उवाच। भो भो दानपते वाक्यं क्रियतां प्रीतये मम । इतः स्यंदनमारुह्य गम्यतां नंदगोकुलम्
वसुदेव सुतौ तत्र विषणोरंशसमुद्भवौ । नाशाय किल संभूतौ मम दुष्टौ प्रवर्द्धतः
धनुर्महो ममाप्यत्र चतुर्दश्यां भविष्यति । आनेयौ भवता गत्वा मल्लयुद्धाय तत्र तौ
चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम । ताभ्यां सहानयोर्युद्धं सर्वलोकोऽत्र पश्यतु
गजः कुवलयापीडो महामात्रप्रचोदितः । स वा हनिष्यते पापौ वसुदेवात्मजौ शिशू
तौ हत्वा वसुदेवं च नंदगोपं च दुर्मतिम् । हनिष्ये पितरं चैनमुग्रसेनं सुदुर्मतिम्
ततस्समस्तगोपानां गोधनान्यखिलान्यहम् । वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम्
त्वामृते यादवाश्चैते द्विषो दानपते मम । एतेषां च वधायाहं यतिष्येऽनुक्रमात्ततः
तदा निष्कंटकं सर्वं राज्यमेतदयादवम् । प्रसाधिष्ये त्वया तस्मान्मत्प्रीत्यै वीर गम्यताम्
यथा च माहिषं सर्पिर्दधिचाप्युपहार्य वै । गोपास्समानयंत्वाशु तथा वाच्यास्त्वया च ते
श्रीपराशर उवाच। इत्याज्ञप्तस्तदाऽक्रूरो महाभागवतो द्विज । प्रीतिमानभवत्कृष्णं श्वो द्रक्ष्यामीति सत्वरः
तथेत्युक्त्वा च राजानं रथमारुह्य शोभनम् । निश्चक्राम ततः पुर्य्या मथुराया मधुप्रियः
श्रीपराशर उवाच । केशी चापि बलोदग्रः कंसदूतः प्रचोदितः । कृष्णस्य निधनाकांक्षी वृंदावनमुपागमत्
स खुरक्षतभूपृष्ठस्सटाक्षेपधुतांबुदः । द्रुतविक्रांतचंद्रार्कमार्गो गोपानुपाद्रवत्
तस्य हेषितशब्देन गोपाला दैत्यवाजिनः । गोप्यश्च भयसंविग्ना गोविंदं शरणं ययुः
त्राहित्राहीति गोविंदः श्रुत्वा तेषां ततो वचः । सतोयजलदध्वानगंभीरमिदमुक्तवान्
अलं त्रासेन गोपालाः केशिनः किं भयातुरैः । भवद्भिर्गोपजातीयैर्वीरवीर्यं विलोप्यते
किमनेनाल्पसारेण हेषिताटोपकारिणा । दैतेयबलवाह्येन वल्गता दुष्टवाजिना
एह्येहि दुष्ट कृष्णोऽहं पूष्णस्त्विव पिनाकधृत् । पातयिष्यामि दशनान्वदनादखिलांस्तव