सूदयंस्तापसानुग्रो वनानटति यस्सदा
ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः। गोपा गोपस्त्रियश्चैव कृष्णकृष्णेति चुक्रुशुः
सिंहनादं ततश्चक्रे तलशब्दं च केशवः। तच्छब्दश्रवणाच्चाऽसौ दामोदरमुपाययौ
अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः । अभ्यधावत दुष्टात्मा कृष्णं वृषभदानवः
आयांतं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलः। न चचाल तदा स्थानादवज्ञास्मितलीलया
आसन्नं चैव जग्राह ग्राहवन्मधुसूदनः। जघान जानुना कुक्षौ विषाणग्रहणाचलम्
तस्य दर्पबलं भंक्त्वा गृहीतस्य विषाणयोः। अपीडयदरिष्टस्य कंठं क्लिन्नमिवांबरम्
उत्पाट्य शृंगमेकं तु तेनैवाताडयत्ततः। ममार स महादैत्यो मुखाच्छोणितमुद्वमन्
तुष्टुवुर्निहते तस्मिन्दैत्ये गोपा जनार्दनम् । जंभे हते सहस्राक्षं पुरा देवगणा यथा
श्रीपराशर उवाच। ककुद्मति हतेऽरिष्टे धेनुके विनिपातिते । प्रलंबे निधनं निधनं नीते धृते गोवर्द्धनाचले
दमिते कालिये नागे भग्ने तुंगद्रु मद्वये । हतायां पूतनायां च शकटे परिवर्त्तिते
कंसाय नारदः प्राह यथावृत्तमनुक्रमात् । यशोदादेवकीगर्भपरिवृत्ताद्यश्षोतः
श्रुत्वा तत्सकलं कंसो नारदाद्देवदर्शनात् । वसुदेवं प्रति तदा कोपं चक्रे सुदुर्मतिः
सोतिकोपादुपालभ्य सर्वयादवसंसदि । जगर्ह यादवांश्चैव कार्यं चैतदचिंतयत्
यावन्न बलमारूढौ रामकृष्णौ सुबालकौ । तावदेव मया वध्यावसाध्यौ रूढयौवनौ
चाणूरोत्र महावीर्यो मुष्टिकश्च महाबलः । एताभ्यां मल्लयुद्धेन मारयिष्याम दुर्मती
धनुर्महमहायोगव्याजेनानीय तौ व्रजात् । तथा तथा यतिष्यामि यास्येते संक्षयं यथा
श्वफल्कतनयं शूरमक्रूरं यदुपुंगवम् । तयोरानयनार्थाय प्रेषयिष्यामि गोकुलम्
वृंदावनचरं घोरमादेक्ष्यामि च केशिनम् । तत्रैवासावतिबलस्तावुभौ घातयिष्यति
गजः कुवलायापीडो मत्सकाशमिहागतौ । घातयिष्यति वा गोपौ वसुदेवसुतावुभौ
श्रीपराशर उवाच। इत्यालोच्य स दुष्टात्मा कंसो रामजनार्दनौ । हंतुं कृतमर्तिवीरावक्रूरं वाक्यमब्रवीत्
कंस उवाच। भो भो दानपते वाक्यं क्रियतां प्रीतये मम । इतः स्यंदनमारुह्य गम्यतां नंदगोकुलम्
वसुदेव सुतौ तत्र विषणोरंशसमुद्भवौ । नाशाय किल संभूतौ मम दुष्टौ प्रवर्द्धतः
धनुर्महो ममाप्यत्र चतुर्दश्यां भविष्यति । आनेयौ भवता गत्वा मल्लयुद्धाय तत्र तौ
चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम । ताभ्यां सहानयोर्युद्धं सर्वलोकोऽत्र पश्यतु
गजः कुवलयापीडो महामात्रप्रचोदितः । स वा हनिष्यते पापौ वसुदेवात्मजौ शिशू
तौ हत्वा वसुदेवं च नंदगोपं च दुर्मतिम् । हनिष्ये पितरं चैनमुग्रसेनं सुदुर्मतिम्
ततस्समस्तगोपानां गोधनान्यखिलान्यहम् । वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम्
त्वामृते यादवाश्चैते द्विषो दानपते मम । एतेषां च वधायाहं यतिष्येऽनुक्रमात्ततः
तदा निष्कंटकं सर्वं राज्यमेतदयादवम् । प्रसाधिष्ये त्वया तस्मान्मत्प्रीत्यै वीर गम्यताम्