स तथा सह गोपीभी रराम मघुसूदनः । यथाब्दकोटिप्रमितः क्षणस्तेन विनामवत् ।। ५-१३-
ता वार्य्यमाणाः पतिभिः पितृभिर्भ्रातृभिस्तथा । कृष्णां गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ।। ५-१३-
सोऽपि कैशोरकवयो मानयन् मधुसूदनः । रेमे ताभिरमेयात्मा क्षपासु क्षपिताहितः ।। ५-१३-
तद्भर्त्तृषु तथा तासु सर्व्वभूतेषु चेश्वरः । आत्मखरूपरूपोऽसौ व्याप्य सर्व्वमवस्थितः ।। ५-१३-
यथा समस्तभूतेषु नभोऽग्रिः पृथिवी जलम् । वायुश्वात्मा तथैवासौ व्याप्य सर्व्वमवस्थितः ।। ५-१३-
श्रीपराशर उवाच। प्रदोषाग्रे कदाचित्तु रासासक्ते जनार्दने। त्रासयन्समदो गोष्ठमरिष्टस्समुपागमत्
स तोयतोयदच्छायस्तीक्ष्णशृंगोर्कलोचनः। खुराग्रपातैरत्यर्थं दारयन्धरणीतलम्
लेलिहानस्सनिष्पेषं जिह्वयोष्ठौ पुनःपुनः। संरंभाविद्धलांगूलः कठिनस्कंधबंधनः
उदग्रककुदाभोगप्रमाणो दुरतिक्रमः। विण्मूत्रलिप्तपृष्ठांगो गवामुद्वेगकारकः
प्रलंबकंठोऽतिमुखस्तरुखातांकिताननः। पातयन्स गवां गर्भान्दैत्यो वृषभरूपधृक्
सूदयंस्तापसानुग्रो वनानटति यस्सदा
ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः। गोपा गोपस्त्रियश्चैव कृष्णकृष्णेति चुक्रुशुः
सिंहनादं ततश्चक्रे तलशब्दं च केशवः। तच्छब्दश्रवणाच्चाऽसौ दामोदरमुपाययौ
अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः । अभ्यधावत दुष्टात्मा कृष्णं वृषभदानवः
आयांतं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलः। न चचाल तदा स्थानादवज्ञास्मितलीलया
आसन्नं चैव जग्राह ग्राहवन्मधुसूदनः। जघान जानुना कुक्षौ विषाणग्रहणाचलम्
तस्य दर्पबलं भंक्त्वा गृहीतस्य विषाणयोः। अपीडयदरिष्टस्य कंठं क्लिन्नमिवांबरम्
उत्पाट्य शृंगमेकं तु तेनैवाताडयत्ततः। ममार स महादैत्यो मुखाच्छोणितमुद्वमन्
तुष्टुवुर्निहते तस्मिन्दैत्ये गोपा जनार्दनम् । जंभे हते सहस्राक्षं पुरा देवगणा यथा
श्रीपराशर उवाच। ककुद्मति हतेऽरिष्टे धेनुके विनिपातिते । प्रलंबे निधनं निधनं नीते धृते गोवर्द्धनाचले
दमिते कालिये नागे भग्ने तुंगद्रु मद्वये । हतायां पूतनायां च शकटे परिवर्त्तिते
कंसाय नारदः प्राह यथावृत्तमनुक्रमात् । यशोदादेवकीगर्भपरिवृत्ताद्यश्षोतः
श्रुत्वा तत्सकलं कंसो नारदाद्देवदर्शनात् । वसुदेवं प्रति तदा कोपं चक्रे सुदुर्मतिः
सोतिकोपादुपालभ्य सर्वयादवसंसदि । जगर्ह यादवांश्चैव कार्यं चैतदचिंतयत्
यावन्न बलमारूढौ रामकृष्णौ सुबालकौ । तावदेव मया वध्यावसाध्यौ रूढयौवनौ
चाणूरोत्र महावीर्यो मुष्टिकश्च महाबलः । एताभ्यां मल्लयुद्धेन मारयिष्याम दुर्मती
धनुर्महमहायोगव्याजेनानीय तौ व्रजात् । तथा तथा यतिष्यामि यास्येते संक्षयं यथा
श्वफल्कतनयं शूरमक्रूरं यदुपुंगवम् । तयोरानयनार्थाय प्रेषयिष्यामि गोकुलम्
वृंदावनचरं घोरमादेक्ष्यामि च केशिनम् । तत्रैवासावतिबलस्तावुभौ घातयिष्यति
गजः कुवलायापीडो मत्सकाशमिहागतौ । घातयिष्यति वा गोपौ वसुदेवसुतावुभौ