हस्तन्यस्ताग्रहस्तेयं तेन याति तथा सखि! अनायत्तपदन्यासा लक्ष्यते पदपद्धतिः ।। ५-१३-
हस्तसंस्पर्शमात्रेण धूर्त्तेनैषा विमानिता । नैराश्यमन्दगामिन्या निवुत्तं लक्ष्यते पदम ।। ५-१३-
नूनमुक्ता त्वरामीति पुनरेष्यामि तेऽन्तिकम् । तेन कृष्णेन येनैषा त्वरिता पदपद्धतिः ।। ५-१३-
प्रविष्टो गहनं कृष्णः पदमत्र न लक्ष्यते । निवर्त्तध्व शशाङ्कस्य नैतद्दीधितिगोचरे ।। ५-१३-
निवृत्तास्तास्ततो गोप्यो निराशाः कृष्णदर्शने । यमुनातीरमागत्य जगुस्तज्वरितं तदा ।। ५-१३-
ततो ददृशुरायान्तं विकाशिमुखपङ्कजम् । गोप्यस्त्रैलोक्यगोप्तारं कृष्णमक्लिष्टचेष्टितम् ।। ५-१३-
काचिदालोक्य गोविन्दमायान्तमतिहर्षिता । कूष्ण् कृष्णेति कृष्णेति प्राह नान्यदुदैरयत् ।। ५-१३-
काचिदू भ्रू भङ्गुरं कृत्वा ललाटफलकं हरिम् । विलोक्य नैत्रभृङ्गाभ्यां पपौ यन्मुखपङ्कजम् ।। ५-१३-
काचिदालोक्य गोविन्दं निमीलित-विलोचना । तस्यैव रूपं ध्यायन्ती योगारूढ़ेव चाबभौ ।। ५-१३-
ततः काश्वित् प्रियालापैः काश्विदू भ्रू भङ्गवीक्षणः । निन्येऽनुनयमन्याञ्च करस्पर्शेन माघवः ।। ५-१३-
ताभिः प्रसन्नचित्तामभिर्गोपीभिः सह सादरम् । रराम रासगोष्ठीभिरुदारचरितो हरिः ।। ५-१३-
रासमणडलबन्धोऽपि कृष्णपार्श्वमनुजूझता । गोपीजनेन नैवाभूदेकस्थानस्थिरात्मना ।। ५-१३-
हर्ते प्रगृह्य चैकैकां गोपिकां रासमणडलीम् । चकार तत्करस्पर्श-निमीलितदृशं हरिः ।। ५-१३-
ततः स ववृते रासश्वलदूवलयनिः स्वनः । अनुयातशरतूकाव्यगेयगीतिरनुक्रमात् ।। ५-१३-
कृष्णाः शरज्वन्द्रमसं कौमुदीं कुमुदाकरम् । जगौ गोपीजनस्त्वेकं कूष्णनाम पुनः पुनः ।। ५-१३-
परिवर्त्तश्रमेणोक चलदूवलयलापिनीम् । ददौ बाहुलतां स्कन्धे गोपी मधुनिघातिनः ।। ५-१३-
काचित् प्रविलसदूबाहुः परिरभ्य चुचुम्ब तम् । गोपी गीतस्तुतिव्याज-निपुणा मधुसूदनम् ।। ५-१३-
गोपी-कपोल-संश्लेषमभिपत्य हरेभुर्जौ । पुलकोदूगमशस्याय स्वेदाम्बुघनतां गतौ ।। ५-१३-
रासगेयं जगौ कृष्णेति यावत् तारतरध्वनिः । साधु कृष्णेति कृष्णेतितावत् ता द्रिगुणं अगुः ।। ५-१३-
गते तु गमनं चक्रु र्वलने सम्मुखं ययुः । प्रतिलोमानुलोमाब्यां भेजुर्गोपाङ्गना हरिम् ।। ५-१३-
स तथा सह गोपीभी रराम मघुसूदनः । यथाब्दकोटिप्रमितः क्षणस्तेन विनामवत् ।। ५-१३-
ता वार्य्यमाणाः पतिभिः पितृभिर्भ्रातृभिस्तथा । कृष्णां गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ।। ५-१३-
सोऽपि कैशोरकवयो मानयन् मधुसूदनः । रेमे ताभिरमेयात्मा क्षपासु क्षपिताहितः ।। ५-१३-
तद्भर्त्तृषु तथा तासु सर्व्वभूतेषु चेश्वरः । आत्मखरूपरूपोऽसौ व्याप्य सर्व्वमवस्थितः ।। ५-१३-
यथा समस्तभूतेषु नभोऽग्रिः पृथिवी जलम् । वायुश्वात्मा तथैवासौ व्याप्य सर्व्वमवस्थितः ।। ५-१३-
श्रीपराशर उवाच। प्रदोषाग्रे कदाचित्तु रासासक्ते जनार्दने। त्रासयन्समदो गोष्ठमरिष्टस्समुपागमत्
स तोयतोयदच्छायस्तीक्ष्णशृंगोर्कलोचनः। खुराग्रपातैरत्यर्थं दारयन्धरणीतलम्
लेलिहानस्सनिष्पेषं जिह्वयोष्ठौ पुनःपुनः। संरंभाविद्धलांगूलः कठिनस्कंधबंधनः
उदग्रककुदाभोगप्रमाणो दुरतिक्रमः। विण्मूत्रलिप्तपृष्ठांगो गवामुद्वेगकारकः
प्रलंबकंठोऽतिमुखस्तरुखातांकिताननः। पातयन्स गवां गर्भान्दैत्यो वृषभरूपधृक्