रम्यं गीतध्वनि श्रत्वा सन्त्यज्यावसथांस्तदा । आजग्मुस्त्वरिता गोप्यो यत्रास्ते मधृसूदनः ।। ५-१३-
शनैः शनैर्ज्जगौ गोपी काचित् तस्य लयानुगम् । दत्तावधाना काचित्तू तमेव मनसास्मरत् ।। ५-१३-
काचित् कृष्णेति कृष्णेति प्रेक्त्वा लज्जामुपागता । ययौ च काचित् प्रेमान्धा ततपार्श्वमविलज्जिता ।। ५-१३-
काचिदावसथस्यान्तः स्थिता दृष्ट्वा बहिर्गुरून् । तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना ।। ५-१३-
तच्विन्ताविपुलाह्लाद-क्षीणपुणयचया तथा । तदप्राप्ति-महादुःविलीनाशेषपातका ।। ५-१३-
चिन्तयन्ती जगत्सूतिं परब्रह्मस्वरूपिणम् । निरुच्छ्वासतया मुक्ति गतान्या गोपकन्यका ।। ५-१३-
गोपीपरिवृतो रात्रि शरचन्द्रमनोरमाम् । मानयामास गोविन्दो रासारम्भरसोत्सुकः ।। ५-१३-
गोप्यश्व वृन्दशः कृष्णचेष्टास्वायत्तमूर्त्तयः । अन्यदेशं गते कृष्णो चेरुर्वृन्दावमान्तरम् ।। ५-१३-
कृष्णो निरुद्धह्टदया इदसूचुः परस्परम् । कृष्णोऽहमेतल्ललितं व्रजाम्यालोक्यतां गतिः । अन्या ब्रवीति कष्णस्य मम गीतिर्निशम्यताम् ।। ५-१३-
दुषृकालिय!तिष्ठात्र कृणोऽहमिति चापरा । बाहुमास्फोठ्य कृष्णस्य लीलासर्व्वस्वमाददे ।। ५-१३-
अन्यां ब्रवीति भो गोपा!निः शङ्कः स्थीयतामिह । अलं बृष्टिभयेनात्र धृतो गोवर्द्धनो मया ।। ५-१३-
धेनुकोऽयं मया क्षिप्तो विचरन्लु यथेच्छया । गोपी ब्रवीति वै चान्या कृष्मालीलानुकारिणी ।। ५-१३-
एवं नानाप्रकारासु कृष्णचेष्टासु तास्तदा । गोप्या व्यग्राः समं चरू रम्य वृन्दावनान्तरम् ।। ५-१३-
विलोक्यैका भुवं प्राह् गोपी गोपवराङ्गना । पुलकाञ्चितसर्व्वाङ्गी विकाशि-नयनोत्पला ।। ५-१३-
ध्वजवज्राङ्कु शाब्जाङ्क-रेखावन्त्यालि पश्यत । पदान्येतानि कृष्णस्य लीलालङ्कृतगामिनः ।। ५-१३-
कापि तेम समं याता कृतपुण्या मदालसा । पदानि तस्याश्चैतानि घनान्यल्पतनूनि च ।। ५-१३-
पुष्पावचयमत्रोच्चैश्वक्रे दामोदरो ध्रु वम् । येनाग्राक्रान्तिमात्राणि पदान्यत्र महात्मनः ।। ५-१३-
अत्रोपविश्य सा तेन कापि पुष्पैरलङ्कृता । अन्यजन्मनि सर्व्वात्मा विष्णुरभ्यर्ज्वितो यया।। ५-१३-
पुष्पबन्धनसम्मान-कृतमानामपास्य ताम् । नन्दगोपसुतो यातो मार्गेणानेन पश्यत ।। ५-१३-
अनुयानेऽसमर्थान्या नितम्बभरमन्थरा । या गन्तव्ये द्रुतं याति निम्रपादाग्रसंस्थितिः ।। ५-१३-
हस्तन्यस्ताग्रहस्तेयं तेन याति तथा सखि! अनायत्तपदन्यासा लक्ष्यते पदपद्धतिः ।। ५-१३-
हस्तसंस्पर्शमात्रेण धूर्त्तेनैषा विमानिता । नैराश्यमन्दगामिन्या निवुत्तं लक्ष्यते पदम ।। ५-१३-
नूनमुक्ता त्वरामीति पुनरेष्यामि तेऽन्तिकम् । तेन कृष्णेन येनैषा त्वरिता पदपद्धतिः ।। ५-१३-
प्रविष्टो गहनं कृष्णः पदमत्र न लक्ष्यते । निवर्त्तध्व शशाङ्कस्य नैतद्दीधितिगोचरे ।। ५-१३-
निवृत्तास्तास्ततो गोप्यो निराशाः कृष्णदर्शने । यमुनातीरमागत्य जगुस्तज्वरितं तदा ।। ५-१३-
ततो ददृशुरायान्तं विकाशिमुखपङ्कजम् । गोप्यस्त्रैलोक्यगोप्तारं कृष्णमक्लिष्टचेष्टितम् ।। ५-१३-
काचिदालोक्य गोविन्दमायान्तमतिहर्षिता । कूष्ण् कृष्णेति कृष्णेति प्राह नान्यदुदैरयत् ।। ५-१३-
काचिदू भ्रू भङ्गुरं कृत्वा ललाटफलकं हरिम् । विलोक्य नैत्रभृङ्गाभ्यां पपौ यन्मुखपङ्कजम् ।। ५-१३-
काचिदालोक्य गोविन्दं निमीलित-विलोचना । तस्यैव रूपं ध्यायन्ती योगारूढ़ेव चाबभौ ।। ५-१३-
ततः काश्वित् प्रियालापैः काश्विदू भ्रू भङ्गवीक्षणः । निन्येऽनुनयमन्याञ्च करस्पर्शेन माघवः ।। ५-१३-