श्रीपराशर उवाच। अथोपवाह्यादादाय घंटामैरावताद्गजात् । अभिषेकं तया चक्रे पवित्रजलपूर्णया
क्रियमाणेऽभिषेके तु गावः कृष्णस्य तत्क्षणात् । प्रस्नवोद्भूतदुग्धाद्रा रं! सद्यश्चक्रुर्वसुन्धराम्
अभिषिच्य गवां वाक्यादुपेंद्रं वै जनार्दनम् । प्रीत्या सप्रश्रयं वाक्यं पुनराह शचीपतिः
गवामेतत्कृतं वाक्यं तथान्यदपि मे शृणु । यद्ब्रवीमि महाभाग भारावतरणेच्छया
ममंशः पुरुषव्याघ्र पृथिव्यां पृथिवीधर । अवतीर्णोऽर्जुनोनाम संरक्ष्यो भवता सदा
भारावतरणे साह्यं स ते वीरः करिष्यति । संरक्षणीयो भवता यथात्मा मधुसूदन
श्रीभगवानुवाच। जानामि भारते वंशो! जातं पार्थं तवांशतः । तमहं पालयिष्यामि यावत्स्थास्यामि भूतले
यावन्महीतले शक्र स्थास्याम्यहमरिंदम । न तावदर्जुनं कश्चिद्देवेंद्र युधि जेष्यति
कंसो नाम महाबाहुर्दैत्योऽरिष्टस्तथाऽसुरः । केशी कुवलयापीडो नरकाद्यास्तथा परे
हतेषु तेषु देवेंद्र भविष्यति महाहवः । तत्र विद्धि सहस्राक्ष भारावतरणं कृतम्
स त्वं गच्छ न संतापं पुत्रार्थे कर्त्तुमर्हसि । नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति
अर्जुनार्थे त्वहं सर्वान्युधिष्ठिरपुरोगमान् । निवृत्ते भारते युद्धे कुंत्यै दास्याम्यविक्षताम्
श्रीपराशर उवाच। इत्युक्तः संपरिष्वज्य देवाराजो जनार्दनम् । आरुह्यैरावतं नागं पुनरेव दिवं ययौ
कृष्णो हि सहितो गोभिर्गोपालैश्च पुनर्व्रजम् । आजगामाऽथ गोपीनां दृष्टिपूतेन वर्त्मना
गते शक्र तु गोपालाः कृष्णमक्लिष्टकारिणम् । ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्द्धनाचलम् ।। ५-१३-
वयमस्मान्महाबाहो! भवता महतो भयात् । गावश्व भवता त्राता गिरिधारणकर्म्मणा ।। ५-१३-
बालीक्रीड़ेयमतुला गोपालत्वं जुगुप्सितम् । दिव्यञ्च कर्म्म भवतः किमेतत् तात!कथ्यताम् ।। ५-१३-
कालियो दमितस्तोये प्रलम्बो विनिपातितः । धृतो गोवर्द्धनश्वायं शङ्कितानि मनांसि नः ।। ५-१३-
सत्यं सत्यं हरेः पादौ शापामीऽमितविक्रम । यथा त्वद्रीर्य्यमालोक्य न त्वां मन्यामहे नरम् ।। ५-१३-
प्रीतिः सस्त्रीकुमारस्य व्रजस्य तव केशव! कर्म्म चेदमशक्यं यत् समस्तैस्त्रिदशैरपि ।। ५-१३-
बालत्वं चातिवीर्य्यञ्च जन्म जास्मास्वशोभनम् । चिन्त्यमानममेयात्मन्!शङ्कां कृष्ण प्रयच्छति ।। ५-१३-
देवो वा दानवो वा त्वं यक्षो गन्धर्व्व एव वा । किं वास्माकं विचारेण बान्धवोऽसि नमोऽस्तु ते ।। ५-१३-
क्षणं भूत्वा त्वसौ तूष्णीं किञ्चित् प्रणयकोपवान् । इत्येवमुक्तस्तैर्गोपैः कृष्णोऽप्याह महामुने ।। ५-१३-
मत्सम्बन्धेन भो गोपा! यदि लज्जा न जायते । शलाध्यो वाहं ततऋः किं वो विचारेण प्रयोजनम् ।। ५-१३-
यदि वोऽस्ति मयि प्रीतिः श्लाध्योऽहं भवतां यदि । तदात्मबन्धुसदृशी बुद्धिर्वः क्रियतां मयि ।। ५-१३-
नाहं देवो न गन्धर्व्वो न यक्षो न च दानवः । अहं वो बान्धवो जातो नास्ति चिन्त्यमतोऽन्यथा ।। ५-१३-
इति श्रुत्वा हरेर्वाक्यं बद्धमौनास्ततो वनम् । ययूर्गोपा महाभाग!तस्मिन् प्रणयकोपितनि ।। ५-१३-
कृष्णस्तु विमलं व्योम शरच्चन्द्रस्य चन्दिरकाम् । तथा कुमुदिनीं फुल्लामामोदितदिगन्तराम् ।। ५-१३-
वनराजिं तथा कूजदूभृङ्गमालां मनोरमाम् । विलोक्य सह गोपीभिर्मनश्वक्र रतिं प्रति ।। ५-१३-
सह रामेणा मधुरमतीव वनिताप्रियम् । जगौ कलपदं शौरिर्नानातन्त्री-कृतव्रतम् ।। ५-१३-