चारयंतं महावीर्यं गास्तु गोपवपुर्धरम् । कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः
गरुडं च ददर्शोच्चैरंतर्द्धानगतं द्विज । कृतच्छायं हरेर्मूर्ध्नि पक्षाभ्यां पक्षिपुंगवम्
अवरुह्य स नागेंद्रा देकांते मधुसूदनम् । शक्रस्सस्मितमाहेदं प्रीतिविस्तारितेक्षणः
इंद्र उवाच। कृष्णकृष्ण शृणुष्वेदं यदर्थ महामागतः । त्वत्समीपं महाबाहो नैतच्चिंत्यं त्वयाऽन्यथा
भारावतारणार्थाय पृथिव्याः पृथिवीतले । अवतीर्णोऽखिलाधार त्वमेव परमेश्वर
मखभंगविरोधेन मया गोकुलनाशकाः । समादिष्टा महामेघास्तैश्चेदं कदनं कृतम्
त्रातास्ताश्च त्वया गावस्समुत्पाट्य महीधरम् । तेनाऽहं तोषितो वीरकर्मणाऽत्यद्भुतेन ते
साधितं कृष्ण देवानामहं मन्ये प्रयोजनम् । त्वयायमद्रि प्रवरः करेणैकेन यद्धृतः
गोभिश्च चोदितः कृष्ण त्वत्सकाशमिहागतः । त्वया त्राताभिरत्यर्थं युष्मत्सत्कारकारणात्
स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः । उपेंद्र त्वे गवामिंद्रो गोविंदस्त्वं भविष्यसि
श्रीपराशर उवाच। अथोपवाह्यादादाय घंटामैरावताद्गजात् । अभिषेकं तया चक्रे पवित्रजलपूर्णया
क्रियमाणेऽभिषेके तु गावः कृष्णस्य तत्क्षणात् । प्रस्नवोद्भूतदुग्धाद्रा रं! सद्यश्चक्रुर्वसुन्धराम्
अभिषिच्य गवां वाक्यादुपेंद्रं वै जनार्दनम् । प्रीत्या सप्रश्रयं वाक्यं पुनराह शचीपतिः
गवामेतत्कृतं वाक्यं तथान्यदपि मे शृणु । यद्ब्रवीमि महाभाग भारावतरणेच्छया
ममंशः पुरुषव्याघ्र पृथिव्यां पृथिवीधर । अवतीर्णोऽर्जुनोनाम संरक्ष्यो भवता सदा
भारावतरणे साह्यं स ते वीरः करिष्यति । संरक्षणीयो भवता यथात्मा मधुसूदन
श्रीभगवानुवाच। जानामि भारते वंशो! जातं पार्थं तवांशतः । तमहं पालयिष्यामि यावत्स्थास्यामि भूतले
यावन्महीतले शक्र स्थास्याम्यहमरिंदम । न तावदर्जुनं कश्चिद्देवेंद्र युधि जेष्यति
कंसो नाम महाबाहुर्दैत्योऽरिष्टस्तथाऽसुरः । केशी कुवलयापीडो नरकाद्यास्तथा परे
हतेषु तेषु देवेंद्र भविष्यति महाहवः । तत्र विद्धि सहस्राक्ष भारावतरणं कृतम्
स त्वं गच्छ न संतापं पुत्रार्थे कर्त्तुमर्हसि । नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति
अर्जुनार्थे त्वहं सर्वान्युधिष्ठिरपुरोगमान् । निवृत्ते भारते युद्धे कुंत्यै दास्याम्यविक्षताम्
श्रीपराशर उवाच। इत्युक्तः संपरिष्वज्य देवाराजो जनार्दनम् । आरुह्यैरावतं नागं पुनरेव दिवं ययौ
कृष्णो हि सहितो गोभिर्गोपालैश्च पुनर्व्रजम् । आजगामाऽथ गोपीनां दृष्टिपूतेन वर्त्मना
गते शक्र तु गोपालाः कृष्णमक्लिष्टकारिणम् । ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्द्धनाचलम् ।। ५-१३-
वयमस्मान्महाबाहो! भवता महतो भयात् । गावश्व भवता त्राता गिरिधारणकर्म्मणा ।। ५-१३-
बालीक्रीड़ेयमतुला गोपालत्वं जुगुप्सितम् । दिव्यञ्च कर्म्म भवतः किमेतत् तात!कथ्यताम् ।। ५-१३-
कालियो दमितस्तोये प्रलम्बो विनिपातितः । धृतो गोवर्द्धनश्वायं शङ्कितानि मनांसि नः ।। ५-१३-
सत्यं सत्यं हरेः पादौ शापामीऽमितविक्रम । यथा त्वद्रीर्य्यमालोक्य न त्वां मन्यामहे नरम् ।। ५-१३-
प्रीतिः सस्त्रीकुमारस्य व्रजस्य तव केशव! कर्म्म चेदमशक्यं यत् समस्तैस्त्रिदशैरपि ।। ५-१३-