विद्युल्लताकषाघातत्रस्तैरिव घनैर्घनम् । नादापूरितदिक्चक्रैर्धारासारमपात्यत
अंधकारीकृते लोके वर्षद्भिरनिशं घनैः । अधश्चोर्ध्वं च तिर्यक् च जगदाप्यमिवाभवत्
गावस्तु तेन पतता वर्षवातेन वेगिना । धूताः प्राणाञ्जहुस्सन्नत्रिकसक्थिशिरोधराः
क्रोडेन वत्सानाक्रम्य तस्थुरन्या महामुने । गावो विवत्साश्च कृता वारिपूरेण चापराः
वत्साश्च दीनवदना वातकंपितकंधराः । त्राहित्राहीत्यल्पशब्दाः कृष्णमूचुरिवातुराः
ततस्तद्गोकुलं सर्वं गोगोपीगोपसंकुलम् । अतीवार्त्तं हरिर्दृष्ट्वा मैत्रेयाचिंतयत्तदा
एतत्कृतं महेंद्रे ण मखभंगविरोधिना । तदेतदखिलं गोष्ठं त्रातव्यमधुना मया
इममद्रि महं धैर्यादुत्पाट्योरुशिखाघनम् । धारयिष्यामि गोष्ठस्य पृथुच्छत्रमिवोपरि
श्रीपराशर उवाच। इति कृत्वामतिं कृष्णो गोवर्द्धनमहीधरम् । उत्पाट्यैककरेणैव धारयामास लीलया
गोपांश्चाह हसञ्छौरिस्समुत्पाटितभूधरः । विशध्वमत्रत्वरिताः कृतं वर्षनिवारणम्
सुनिवातेषु देश्षोउ! यथा जोषमिहास्यताम् । प्रविश्यतां न भेतव्यं गिरिपाताच्च निर्भयैः
इत्युक्तास्तेन ते गोपा विविशुर्गोधनैस्सह । शकटारोपितैर्भांडैर्गोप्यश्चासारपीडिताः
कृष्णोपि तं दधारैव शैलमत्यंतनिश्चलम् । व्रजौकवासिभिर्हर्षविस्मिताक्षैर्निरीक्षितः
गोपगोपीजनैर्हृष्टैः प्रीतिविस्तारितेक्षणैः । संस्तूयमानचरितः कृष्णश्शैलमधारयत्
सप्तरात्रं महामेघा ववर्षुर्नंदगोकुले । इंद्रे ण चोदिता विप्र गोपानां नाशकारिणा
ततो धृते महाशैले परित्राते च गोकुले । मिथ्याप्रतिज्ञो बलभिद्वारयामास तान्घनान्
व्यभ्रे नभसि देवेंद्रे वितथात्मवचस्यथ । निष्क्रम्य गोकुलं हृष्टं स्वस्थानं पुनरागमत्
मुमोच कृष्णोपि तदा गोवर्द्धनमहाचलम् । स्वस्थाने विस्मितमुखैर्दृष्टस्तैस्तु व्रजौकसैः
श्रीपराशर उवाच। धृते गोवर्द्धने शैले परित्राते च गोकुले । रोचयामास कृष्णस्य दर्शनं पाकशासनः
सोऽधिरुह्य महानागमैरावतममित्रजित् । गोवर्द्धनगिरौ कृष्णं ददर्श त्रिदश्श्वोरः
चारयंतं महावीर्यं गास्तु गोपवपुर्धरम् । कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः
गरुडं च ददर्शोच्चैरंतर्द्धानगतं द्विज । कृतच्छायं हरेर्मूर्ध्नि पक्षाभ्यां पक्षिपुंगवम्
अवरुह्य स नागेंद्रा देकांते मधुसूदनम् । शक्रस्सस्मितमाहेदं प्रीतिविस्तारितेक्षणः
इंद्र उवाच। कृष्णकृष्ण शृणुष्वेदं यदर्थ महामागतः । त्वत्समीपं महाबाहो नैतच्चिंत्यं त्वयाऽन्यथा
भारावतारणार्थाय पृथिव्याः पृथिवीतले । अवतीर्णोऽखिलाधार त्वमेव परमेश्वर
मखभंगविरोधेन मया गोकुलनाशकाः । समादिष्टा महामेघास्तैश्चेदं कदनं कृतम्
त्रातास्ताश्च त्वया गावस्समुत्पाट्य महीधरम् । तेनाऽहं तोषितो वीरकर्मणाऽत्यद्भुतेन ते
साधितं कृष्ण देवानामहं मन्ये प्रयोजनम् । त्वयायमद्रि प्रवरः करेणैकेन यद्धृतः
गोभिश्च चोदितः कृष्ण त्वत्सकाशमिहागतः । त्वया त्राताभिरत्यर्थं युष्मत्सत्कारकारणात्
स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः । उपेंद्र त्वे गवामिंद्रो गोविंदस्त्वं भविष्यसि