गिरिमूर्द्धनि कृष्णोऽपि शैलोऽहमिति मूर्त्तिमान् । बुभुजेऽन्नं बहु तदा गोपवर्य्याहृतं द्विज ।। ५-१०-
अन्येन कृष्णो रूपेण गोपैः सह गिरेः शिरः । अधिरुह्यार्च्चयामास द्रितीयामात्मनस्तनुम् ।। ५-१०-
अन्तर्द्धानं गते तस्मिन् गोपा लब्ध्वा ततो वरान् । कृत्वा गिरिमखं गोष्ठं निजमभ्याययुः पुनः ।। ५-१०-
श्रीपराशर उवाच। मखे प्रतिहते शक्रो मैत्रेयातिरुषान्वितः । संवर्त्तकं नाम गणं तोयदानामथाऽब्रवीत्
भोभो मेघा निशम्यैतद्वचनं गदतो मम । आज्ञानंतरमेवाशु क्रियतामविचारितम्
नंदगोपस्सुदुर्बुद्धिर्गोपैरन्यैस्सहायवान् । कृष्णाश्रयं बलाध्मातो मखभंगमचीकरत्
आजीवो याः परस्तेषां गावस्तस्य च कारणम् । तागावो वृष्टिपातेन पीड्यन्तां वचनान्मम
अहमप्यद्रि शृंगाभं तुंगमारुह्य वारणम् । साहाय्यं वः करिष्यामि वाय्वम्बूत्सर्गयोजितम्
श्रीपराशर उवाच। इत्याज्ञप्तास्ततस्तेन मुमुचुस्ते बलाहकाः । वातवर्षं महाभीममभावाय गवां द्विज
ततः क्षणेन पृथिवी ककुभॐबरमेव च । एकं धारामहासारपूरेणनाभवन्मुने
विद्युल्लताकषाघातत्रस्तैरिव घनैर्घनम् । नादापूरितदिक्चक्रैर्धारासारमपात्यत
अंधकारीकृते लोके वर्षद्भिरनिशं घनैः । अधश्चोर्ध्वं च तिर्यक् च जगदाप्यमिवाभवत्
गावस्तु तेन पतता वर्षवातेन वेगिना । धूताः प्राणाञ्जहुस्सन्नत्रिकसक्थिशिरोधराः
क्रोडेन वत्सानाक्रम्य तस्थुरन्या महामुने । गावो विवत्साश्च कृता वारिपूरेण चापराः
वत्साश्च दीनवदना वातकंपितकंधराः । त्राहित्राहीत्यल्पशब्दाः कृष्णमूचुरिवातुराः
ततस्तद्गोकुलं सर्वं गोगोपीगोपसंकुलम् । अतीवार्त्तं हरिर्दृष्ट्वा मैत्रेयाचिंतयत्तदा
एतत्कृतं महेंद्रे ण मखभंगविरोधिना । तदेतदखिलं गोष्ठं त्रातव्यमधुना मया
इममद्रि महं धैर्यादुत्पाट्योरुशिखाघनम् । धारयिष्यामि गोष्ठस्य पृथुच्छत्रमिवोपरि
श्रीपराशर उवाच। इति कृत्वामतिं कृष्णो गोवर्द्धनमहीधरम् । उत्पाट्यैककरेणैव धारयामास लीलया
गोपांश्चाह हसञ्छौरिस्समुत्पाटितभूधरः । विशध्वमत्रत्वरिताः कृतं वर्षनिवारणम्
सुनिवातेषु देश्षोउ! यथा जोषमिहास्यताम् । प्रविश्यतां न भेतव्यं गिरिपाताच्च निर्भयैः
इत्युक्तास्तेन ते गोपा विविशुर्गोधनैस्सह । शकटारोपितैर्भांडैर्गोप्यश्चासारपीडिताः
कृष्णोपि तं दधारैव शैलमत्यंतनिश्चलम् । व्रजौकवासिभिर्हर्षविस्मिताक्षैर्निरीक्षितः
गोपगोपीजनैर्हृष्टैः प्रीतिविस्तारितेक्षणैः । संस्तूयमानचरितः कृष्णश्शैलमधारयत्
सप्तरात्रं महामेघा ववर्षुर्नंदगोकुले । इंद्रे ण चोदिता विप्र गोपानां नाशकारिणा
ततो धृते महाशैले परित्राते च गोकुले । मिथ्याप्रतिज्ञो बलभिद्वारयामास तान्घनान्
व्यभ्रे नभसि देवेंद्रे वितथात्मवचस्यथ । निष्क्रम्य गोकुलं हृष्टं स्वस्थानं पुनरागमत्
मुमोच कृष्णोपि तदा गोवर्द्धनमहाचलम् । स्वस्थाने विस्मितमुखैर्दृष्टस्तैस्तु व्रजौकसैः
श्रीपराशर उवाच। धृते गोवर्द्धने शैले परित्राते च गोकुले । रोचयामास कृष्णस्य दर्शनं पाकशासनः
सोऽधिरुह्य महानागमैरावतममित्रजित् । गोवर्द्धनगिरौ कृष्णं ददर्श त्रिदश्श्वोरः