ततः क्रोधव्यवायादीनायासं तैर्द्विजैस्सह । यजमानो न कुर्वीत दोषस्तत्र महानयम्
श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च । व्यवायी रेतसो गर्त्ते मज्जयत्यात्मनः पितॄन्
तस्मात् प्रथममत्रोक्तं द्रिजाग्र्याणं निमन्त्रणम् । अनिमन्त्र्य द्विजानेवमागतान् भोजयेद् यतीन्
पादशौचादिना गेहमागतान् पूजयेद् द्विजान्
पवित्रपाणिराचान्तानासनेषूपवेशयेत् । पितॄणामयुजो युग्मान् देवानामिच्छया द्विजान्
देवानामेकमेकं वा पितॄणाञ्च नियोजयेत्
तथा मातामहश्वाद्धं वैश्वदेवसमन्वितम् । कुर्वीत भक्तिसम्पन्नस्तन्त्रं वा वैश्वदैविकम्
प्राङमुखान् भोजयेद् विप्रान् देवानामुभयात्मकान् । पितृमातामहानाञ्च भोजयेच्चाप्युदङ्मुखान्
पृथक् तयोः केचिदाहुः श्राद्धस्य करणां नृप । एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः
विष्टरार्थं कुशं दत्त्वा सम्पूज्यार्ध्यं विधानतः । कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया
यवाम्बुना च देवानां दद्यादर्घ्यं विधानवित् । स्रग्गन्धधूपदीपांश्च तेभ्यो दद्याद्यथाविधि
पितॄणामपसव्यं तत् सर्वमेवोपकल्पयेत् । अनुज्ञाञ्च ततःप्राप्य दत्त्वा दर्भान् द्विधाकृतान्
मन्त्रपूर्वं पितॄणान्तु कृर्याच्चावाहनं बुधः । तिलाम्बुना चापसव्यं दद्यादर्घ्यादिकं नृप
काले तत्रातिथिं प्राप्तमन्नकामं नृपाध्वगम् । ब्रह्मणैरभ्यनुज्ञातः कामं तमपि भोजयेत्
योगिनो विविधै रूपैर्नराणामुपकारिणः । भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणाः
स्मादभ्यर्चयेत् प्राप्तं श्राद्धकालेऽतिथिं बुधः । श्राद्धक्रियाफलं हन्ति नरेन्द्रापूजितोऽतिथिः
जुहुयाद् व्यञ्जनक्षारवर्जमन्नं ततोऽनले । अनुज्ञातो द्रिजैस्तैस्तु त्रिकृत्वः पुरुषर्षभ
अग्नये कव्यवाहाय स्वाहेत्यादौ नृपाहुतिः । सोमाय वै पितृमते दातव्या तदनन्तरम्
वैवस्वताय चैवान्या तृतीया दीयते ततः । हुतावशिष्टमल्पान्नं पितृपात्रेषु निर्वपेत्
ततोऽन्नं मुष्टमत्यर्थमभीष्टमतिसंस्कृतम् । दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम्
भोक्तव्यं तैश्च तच्चित्तैर्मौनिभिः सुमुखैः सुखम् । अक्रुद्ध्यता चात्वरता देयं तेनापि भक्तितः
रक्षोघ्नमन्त्रपठनं भूमेरास्तरणं तिलैः । कृत्वा ध्येयाः स्वपितरस्त एव द्विजसत्तमाः
पिता पितामहश्चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः
पिता पितामहश्चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्वद्य होमाप्यायितमूर्तयः
पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु पिष्डेन मया दत्तेन भूतले
पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु मे भक्त्या मयैतत्समुदाहृतम्
मातामहस्तृप्तिमुपैतु तस्य तथा पिता तस्य पिता ततोऽन्यः । विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः
यज्ञेश्वरो हव्यसमस्तकव्य-भोक्ताव्ययात्वा हरीरीश्वरोऽत्र । तत्सन्निधानादपयान्तु सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वै
तृप्तिष्वेतेषु विकिरेदन्नं विप्रेषु भूतले । दद्यादाचमनार्थाय तेब्यो वारि सकृत्सकृत्
सुतृप्तैस्तैरनुज्ञातः सर्वेणान्नेन भूतले । सतिलेन ततः पिम्डान् सम्यग्दद्यात्समाहितः