कृष्णस्तानुत्सुकान् दृष्ट्वा गोपानुत्सवलालसान् । कौतूहलादिदं वाक्यं प्राह वृद्धान् महामतिः ।। ५-१०-
कोऽयं शक्रमहो नाम येन वो हर्ष आगतः । प्राह तं नन्दगोपश्व पृच्छन्तमतिसादरम् ।। ५-१०-
मेघानां पयसां चेशो देवराजः शतक्रतुः । तेन सञ्चोदिता मेघा वर्षन्त्यम्बुमयं रसम् ।। ५-१०-
तद्वृष्टिजनितं शस्यं वयमन्ये च देहिनः । वर्त्तयामोपयुञ्जानास्तर्पयामश्व देवताः ।। ५-१०-
क्षीरवत्य इमा गावो वत्सवत्यश्व निर्वृताः । तेन संवर्द्धितैः शस्यैः पुष्टास्तुष्टा भवन्ति वै ।। ५-१०-
नासस्या नातृणा भूमिर्न बुभुक्षार्द्दितो जनः । दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ।। ५-१०-
भौममेतत् पयो दुग्धं गोभिः सूर्य्यस्य वारिदः । पर्ज्जन्यः सर्व्वलोकस्य भवाय भुवि वर्षति ।। ५-१०-
तस्मात् प्रावृषि राजानः सर्व्वे शक्र मुदा युताः । मखैः सुरेशमर्च्चन्ति वयमन्ये च मानवाः ।। ५-१०-
नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने । कोपाय त्रिदशेन्द्रस्य प्राह दामोदरस्तदा ।। ५-१०-
न वयं कृषिकर्त्तारो वाणिज्यजीवनो न च । गावोऽस्मद्दैवतं तात! वयं वनचरा यतः ।। ५-१०-
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्तथापरा । विद्याचतुष्टयं त्वेतत् वार्त्तामत्र शृणुष्व मे ।। ५-१०-
कृषिर्वणिज्या तद्वच्च तृतीयं पशुपालनम् । विद्या ह्येका महाभाग! वार्त्ता वृत्तित्रयाश्रया ।। ५-१०-
कर्षकाणां कृषिर्वृत्तिः पणयं विपणिजीविनाम् । अस्माकं गाः परा वृत्तिर्वार्त्ताभेदैरियं त्रिभिः ।। ५-१०-
विद्यया यो यया युक्तस्तस्य स दैवतं महत् । सैव पूज्यार्च्चनीया च सैव तस्योपकारिका ।। ५-१०-
यो यस्य फलमश्नन् वै पूजयत्यपरं नरः । इह च प्रेत्य चैवासौ न तदाप्नोति शोभनम् ।। ५-१०-
कृष्यान्ता प्रथिता सीमा सीमान्तञ्च पुनर्वनम् । वनान्ता गिरयः सर्व्वे ते चास्माकं परा गतिः ।। ५-१०-
न द्वारबन्धावरणा न गृहक्षेत्रिणस्तथा । सुखिनस्त्वखिले लोके यथा वै चक्रचारिणः ।। ५-१०-
श्रूयन्ते गिरयश्चैव वनोऽस्मिन् कामरूपिणः । तत्तद्रूपं समास्थाय रमन्ते स्वेषु सानुषु ।। ५-१०-
यदा चैते प्रबाध्यन्ते तेषां ये काननौकसः । तदा सिंहादिरूपैस्तान् घातयन्ति महीधराः ।। ५-१०-
गिरियज्ञस्त्वयं तस्माद् गोयज्ञश्च प्रवर्त्त्यताम् । किमस्माकं महेन्द्रेण गावः शैलाश्व देवताः ।। ५-१०-
मन्त्रयज्ञपरा विप्राः सीतायज्ञाश्व कर्षकाः । गिरि-गोयज्ञशीलाश्व वयमद्रिवनाश्रयाः ।। ५-१०-
तस्माद् गोवर्द्धनः शैलो भवद्भिर्विविधार्हणैः । अर्च्च्यतां पूज्यतां मेध्यान् पशून् हत्वा विधानतः ।। ५-१०-
सर्व्वघोषस्य सन्दोहो गृह्यतां मा विचार्य्यताम् । भोज्यन्तां तेन वै विप्रास्तथा ये चाभिवाञ्छकाः ।। ५-१०-
तत्रार्चिते कृते होमे भोजितेषु द्विजातिषु । शरत्पुष्पकृतापीड़ाः परिगच्छन्तु गोगणाः ।। ५-१०-
एतन्मम मतं गोपाः सम्प्रीत्या क्रियते यदि । ततः कृता भवेत् प्रीतिर्गवामद्रेस्तथा मम ।। ५-१०-
इति तस्य वचः श्रुत्वा नन्दाद्यास्ते व्रजौकसः । प्रीत्युत्फुल्लमुखा विप्र! साधु साध्वित्यथाब्रुवन् ।। ५-१०-
शोभनं ते मतं वत्स! यदेतद्भवतोदितम् । तत् करिष्यामहे सर्व्वं गिरियज्ञः प्रवर्त्त्यताम् ।। ५-१०-
तथा च कृतवन्तस्ते गिरियज्ञं व्रजौकसः । दधि-पायस-मांसाद्यैर्ददुः शैलबलिं ततः ।। ५-१०-
द्विजांश्च भोजयामासुः शतशोऽथ सहस्रशः । अन्यानप्यागतानित्थं कृष्णेनोक्तं यथा पुरा ।। ५-१०-
गावः शैलं ततश्चक्रुरर्चितास्ताः प्रदक्षिणम् । ऋषभाश्चापि नर्द्दन्तः सतोया जलदा इव ।। ५-१०-