तारका विमले व्योम्नि रराजाखण्डमण्डलः । चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा ।। ५-१०-
शनकैः शनकैस्तीरं तत्यजुश्व जलाशयाः । ममत्वं क्षेत्रपुत्रादिरूढ़मुच्चैर्यथा बुधाः ।। ५-१०-
पूर्व्वं त्यक्तैः सरोऽम्भोभिर्हंसा योगं पुनर्ययुः । क्लेशैः कुयोगिनोऽशेषैरन्तरायहता इव ।। ५-१०-
निभृतोऽभवदत्यर्थं समुद्रः स्तिमितोदकः । क्रमावाप्तमहायोगो निश्वलात्मा यथा यतिः ।। ५-१०-
सर्व्वत्रातिप्रसन्नानि सलिलानि तदाभवन् । ज्ञाते सर्व्वगते विष्णौ मनांसीव सुमेधसाम् ।। ५-१०-
बभूव निर्म्मलं व्योम शरदा ध्वस्ततोयदम् । योगाग्निदग्धक्लेशौघं योगिनामिव मानसम् ।। ५-१०-
सूर्य्यांशुजनितं तापं निन्यं तारापतिः शमम् । अहङ्कारोद्भवं दुःखं विवेकः सुमहानिव ।। ५-१०-
नभसोऽभ्रान् भुवः पङ्कान् कालुष्यं चाम्भसः शरत् । इन्द्रियाणीन्द्रियार्थेभ्यः प्रत्याहार इवाहरत् ।। ५-१०-
प्राणायाम इवाम्भोभिः सरसां कृतपूरकैः । अभ्यस्यतेऽनुदिवसं रेचकाकुम्भकादिभिः ।। ५-१०-
विमलाम्बरनक्षत्रे काले चाभ्यागते व्रजे। ददर्शेन्द्रमहारम्भायौद्यतांस्तान् व्रजौकसः ।। ५-१०-
कृष्णस्तानुत्सुकान् दृष्ट्वा गोपानुत्सवलालसान् । कौतूहलादिदं वाक्यं प्राह वृद्धान् महामतिः ।। ५-१०-
कोऽयं शक्रमहो नाम येन वो हर्ष आगतः । प्राह तं नन्दगोपश्व पृच्छन्तमतिसादरम् ।। ५-१०-
मेघानां पयसां चेशो देवराजः शतक्रतुः । तेन सञ्चोदिता मेघा वर्षन्त्यम्बुमयं रसम् ।। ५-१०-
तद्वृष्टिजनितं शस्यं वयमन्ये च देहिनः । वर्त्तयामोपयुञ्जानास्तर्पयामश्व देवताः ।। ५-१०-
क्षीरवत्य इमा गावो वत्सवत्यश्व निर्वृताः । तेन संवर्द्धितैः शस्यैः पुष्टास्तुष्टा भवन्ति वै ।। ५-१०-
नासस्या नातृणा भूमिर्न बुभुक्षार्द्दितो जनः । दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ।। ५-१०-
भौममेतत् पयो दुग्धं गोभिः सूर्य्यस्य वारिदः । पर्ज्जन्यः सर्व्वलोकस्य भवाय भुवि वर्षति ।। ५-१०-
तस्मात् प्रावृषि राजानः सर्व्वे शक्र मुदा युताः । मखैः सुरेशमर्च्चन्ति वयमन्ये च मानवाः ।। ५-१०-
नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने । कोपाय त्रिदशेन्द्रस्य प्राह दामोदरस्तदा ।। ५-१०-
न वयं कृषिकर्त्तारो वाणिज्यजीवनो न च । गावोऽस्मद्दैवतं तात! वयं वनचरा यतः ।। ५-१०-
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्तथापरा । विद्याचतुष्टयं त्वेतत् वार्त्तामत्र शृणुष्व मे ।। ५-१०-
कृषिर्वणिज्या तद्वच्च तृतीयं पशुपालनम् । विद्या ह्येका महाभाग! वार्त्ता वृत्तित्रयाश्रया ।। ५-१०-
कर्षकाणां कृषिर्वृत्तिः पणयं विपणिजीविनाम् । अस्माकं गाः परा वृत्तिर्वार्त्ताभेदैरियं त्रिभिः ।। ५-१०-
विद्यया यो यया युक्तस्तस्य स दैवतं महत् । सैव पूज्यार्च्चनीया च सैव तस्योपकारिका ।। ५-१०-
यो यस्य फलमश्नन् वै पूजयत्यपरं नरः । इह च प्रेत्य चैवासौ न तदाप्नोति शोभनम् ।। ५-१०-
कृष्यान्ता प्रथिता सीमा सीमान्तञ्च पुनर्वनम् । वनान्ता गिरयः सर्व्वे ते चास्माकं परा गतिः ।। ५-१०-
न द्वारबन्धावरणा न गृहक्षेत्रिणस्तथा । सुखिनस्त्वखिले लोके यथा वै चक्रचारिणः ।। ५-१०-
श्रूयन्ते गिरयश्चैव वनोऽस्मिन् कामरूपिणः । तत्तद्रूपं समास्थाय रमन्ते स्वेषु सानुषु ।। ५-१०-
यदा चैते प्रबाध्यन्ते तेषां ये काननौकसः । तदा सिंहादिरूपैस्तान् घातयन्ति महीधराः ।। ५-१०-
गिरियज्ञस्त्वयं तस्माद् गोयज्ञश्च प्रवर्त्त्यताम् । किमस्माकं महेन्द्रेण गावः शैलाश्व देवताः ।। ५-१०-