ते वाहयन्तस्त्वन्योन्यं भाण्डीरं वटमेत्य वै । पुनर्निववृतुः सर्वे येये तत्र परिजिताः ॥ ५,९.
संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः । नभःस्थलं जगामाशु सचन्द्र इव वारिदः ॥ ५,९.
असहन्रौहिणेयस्य स भारं दानवोत्तमः । ववृधे स महाकायः प्रावृषीव बलाहकः ॥ ५,९.
संकर्षणस्तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् । स्रग्दामलंबाभरणं मकुटाटोपमस्तकम् ॥ ५,९.
रौद्रं शकटचक्राक्षं पादन्यास चलत्क्षितिम् । अभीतमनसा तेन रक्षसा रोहिणीसुतः । ह्रियमाणस्ततः कृष्णमिदं वचनमब्रवीत् ॥ ५,९.
कृष्णाकृष्ण ह्रियाम्येष पर्वतोदग्रमूर्तिना । केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ ५,९.
यदत्र सांप्रतं कार्यं मया मधुनिषूदन । तत्कथ्यतां प्रयात्येष दुरात्मातित्वरान्वितः ॥ ५,९.
श्रीपराशर उवाच तमाह रामं गोविन्दः स्मितभिन्नोष्ठसंपुटः । महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥ ५,९.
श्रीकृष्ण उवाच किमयं मानुषो भावो व्यक्तमेवावलंब्यते । सर्वात्मन् सर्वगुह्यानां गुह्यगुह्यात्मना त्वया ॥ ५,९.
स्मराशेषजगद्बीजकारणं कारणाग्रज । आत्मानमेकं तद्वच्च जगत्येकार्णवे च यत् ॥ ५,९.
किं न वेत्सि यथाहं च त्वं चैकं कारणं भुवः । भारावतारणार्थाय मर्त्यलोकमुपागतौ ॥ ५,९.
नभश्शिरस्तेंबुवहाश्च केशाः पादौ क्षितिर्वक्त्रमनन्तवह्नि । सोमो मनस्ते श्वसितं समीरणो दिशश्चतस्रोऽव्यय बाहवस्ते ॥ ५,९.
सहस्रवक्त्रो भगवान्महात्मा सहस्रहस्ताङ्घ्रिशरीरभेदः । सहस्रपद्मोद्भवयोनिराद्यःसहस्रशस्त्वां मुनयो गृणन्ति ॥ ५,९.
दिव्यं हि रूपं तव वेत्ति नान्यो देवैरशेषैरवताररूपम् । तदर्च्यते वेत्सि न किं यदन्ते त्वय्येव विश्वं लयमभ्युपैति ॥ ५,९.
त्वया धृतेयं धरणी बिभर्ति चराचरं विश्वमनन्तमूर्ते । कृतादिभेदैरज कालरूपो निमेषपूर्वो जगदेतदत्सि ॥ ५,९.
अत्तं यथा बाडववह्निनांबु हिमस्वरूपं परिगृह्य कास्तम् । हिमाचले भानुमतोंशुसंगाज्जलत्वमभ्येति पुनस्तदेव ॥ ५,९.
एवं त्वया संहरणेऽत्तमेतज्जगत्समस्तं त्वदधीनकं पुनः । तवैव सर्गाय समुद्यतस्य जगत्त्वमभ्येत्यसुकल्पमीश ॥ ५,९.
भवानहं च विश्वात्मन्नेकमेव च कारणम् । जगतोस्य जगत्यर्थे भेदेनावां व्यवस्थितौ ॥ ५,९.
तत्स्मर्यताममेयात्मस्त्वयात्मा जहि दानवम् । मानुष्यमेवावलंब्य बन्धूनां क्रियतां हितम् ॥ ५,९.
श्री पराशर उवाच इति संस्मारितो विप्र कृष्णेन सुमहात्मना । विहस्य पीडयामास प्रलंबं बलवान्बलः ॥ ५,९.
मुष्टिना सोहनन्मूर्ध्नि कोपसंरक्तलोचनः । तेन चास्य प्रहारेण बहिर्याते विलोचने ॥ ५,९.
स निष्कासितमस्तिष्को मुखाच्छोणितमुद्वमन् । निपपात महीपृष्ठे दत्य वर्यो ममार च ॥ ५,९.
प्रलंबं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा । प्रहृष्टास्तुष्टुवुर्गौपाःसाधुसाध्विति चाब्रुवन् ॥ ५,९.
संस्तूयमानो गोपैस्तु रामो दैत्ये निपातिते । प्रलंबं सह कृष्णेन पुनर्गोकुलमाययौ ॥ ५,९.
तयोविंहरतोस्तत्र राम-केशवयोर्व्रजे । प्रावृट् व्यतीता विकसत्-सरोजा चाभवच्छरत् ।। ५-१०-
अवापुस्तापमत्यर्थं शफर्य्यः पल्वलोदके । पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही ।। ५-१०-
मयूरा मौनिस्तस्थुः परित्यक्तमदा वने । असारतां परिज्ञाय संसारस्येव योगिनः ।। ५-१०-
उत्सृज्य जलसर्वस्वं निर्म्मलाः सितमूर्त्तयः । तत्यजुश्वाम्बरं मेघा गृहं विज्ञानिनो यथा ।। ५-१०-
शरत्सूर्य्यांशुतप्तानि ययुः शोष संरासि च । बह्वालम्बि-ममत्वेन हृदयानीव देहिनाम् ।। ५-१०-
कुमुदैः शरदम्भांसि योग्यतालक्षणं ययुः। अवबोधैर्मनांसीव सम्बन्धममलात्मनाम् ।। ५-१०-