पद्भयामुभाभ्यां स तदा पश्विमाभ्यां बली बलम् । जघानोरसि ताभ्याञ्च स च तेनाप्यगृह्यत ।। ५-८-
गृहीत्वा भ्रामणेनैव सोऽम्बरे गतजीवितम् । तस्मिन्नेव च चिक्षेप वेगेन तृणराजनि ।। ५-८-
ततः फलान्यनेकानि तालाग्रान्निपतन् खरः । पृथिव्यां पातयामास महावातोऽम्बुदानिव ।। ५-८-
अन्यानप्यस्य वै ज्ञातीनागतान् दैत्यगर्द्दभान् । कृष्णाश्विक्षेप तालाग्र बलभद्रश्व लीलया ।। ५-८-
क्षणेनालङ्कृता पृथ्वी पक्कस्तालफलैस्तथा । दैत्यगर्द्दभदेहैश्व मैत्रेय! शुशुभेऽधिकम् ।। ५-८-
ततो गावो निराबाधास्तस्मिंस्तालवने द्रिज! नवशस्य सुख चेरुर्यन्न भुक्तमभूत् पुरा ।। ५-८-
श्रीपराशर उवाच तस्मिन्रासभदैतेये सानुगे विनिपातिते । सौम्यं तद्गोपगोपीनां रम्यं तालवनं बभौ ॥ ५,९.
ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ । हत्वा धेनुकदैतेयं भाण्डीरवटमागतौ ॥ ५,९.
क्ष्वेलमानौ प्रगायन्तौ विचिन्वन्तौ च पादपान् । चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः ॥ ५,९.
निर्योगपाशस्कन्धौ तौ वनमालाविभूषितौ । शुशुभाते महात्मानौ बालशृङ्गाविवर्षभौ ॥ ५,९.
सुवर्णाञ्जनचूर्णाभ्यां तौ तदा रूषितांबरौ । महेन्द्रायुधसंयुक्तौ श्वेतकृष्णाविवांबुदौ ॥ ५,९.
चेरतुर्लौकसिद्धाभिः क्रीडाभिरितरेतरम् । समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ ५,९.
मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् । तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥ ५,९.
ततस्त्वान्दोलिकाभिश्च नियुद्धैश्च महाबलौ । व्यायामं चक्रतुस्तत्र क्षेपणीयैस्तथाश्मभिः ॥ ५,९.
तल्लिप्सुरसुरस्तत्र ह्युभयो रममाणयोः । आजगाम प्रलंबाख्यो गोपवेषतिरोहितः ॥ ५,९.
सोऽवगाहत निःशङ्कस्तेषां मध्यममानुषः । मानुषं वपुरास्थाय प्रलंबो दानवोत्तमः ॥ ५,९.
तयोशिछ्द्रान्तरप्रेप्सुरविषह्यममन्यत । कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ ५,९.
हरिणाक्रीडनं नाम बालक्रीडनकं ततः । प्रकुर्वन्तो हि ते सर्वे द्वौद्वौ युगपदुत्थितौ ॥ ५,९.
श्रीदाम्ना सह गोविन्दः प्रलंबेन तथा बलः । गोपालौरपरैश्चान्ये गोपालाः पुप्लुवुस्ततः ॥ ५,९.
श्रीदामानं ततः कृष्णः प्रलंबं रोहिणीसुतः । जितवान्कृष्णपक्षीयैर्गोपैरन्ये पराजिताः ॥ ५,९.
ते वाहयन्तस्त्वन्योन्यं भाण्डीरं वटमेत्य वै । पुनर्निववृतुः सर्वे येये तत्र परिजिताः ॥ ५,९.
संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः । नभःस्थलं जगामाशु सचन्द्र इव वारिदः ॥ ५,९.
असहन्रौहिणेयस्य स भारं दानवोत्तमः । ववृधे स महाकायः प्रावृषीव बलाहकः ॥ ५,९.
संकर्षणस्तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् । स्रग्दामलंबाभरणं मकुटाटोपमस्तकम् ॥ ५,९.
रौद्रं शकटचक्राक्षं पादन्यास चलत्क्षितिम् । अभीतमनसा तेन रक्षसा रोहिणीसुतः । ह्रियमाणस्ततः कृष्णमिदं वचनमब्रवीत् ॥ ५,९.
कृष्णाकृष्ण ह्रियाम्येष पर्वतोदग्रमूर्तिना । केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ ५,९.
यदत्र सांप्रतं कार्यं मया मधुनिषूदन । तत्कथ्यतां प्रयात्येष दुरात्मातित्वरान्वितः ॥ ५,९.
श्रीपराशर उवाच तमाह रामं गोविन्दः स्मितभिन्नोष्ठसंपुटः । महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥ ५,९.
श्रीकृष्ण उवाच किमयं मानुषो भावो व्यक्तमेवावलंब्यते । सर्वात्मन् सर्वगुह्यानां गुह्यगुह्यात्मना त्वया ॥ ५,९.
स्मराशेषजगद्बीजकारणं कारणाग्रज । आत्मानमेकं तद्वच्च जगत्येकार्णवे च यत् ॥ ५,९.