क्वचित् कदम्बस्रक्-चित्रौ मयूरस्त्रग्धरौ क्वचित् । विचित्रौ क्वचिदास्येतां विविधैर्गिरिधातुभिः ।। ४-६-
पर्णशय्यासु संसुप्तौ क्वचिन्नद्रान्तरैषिणौ । क्वचिद् गर्ज्जति जीमूते हाहाकारखादृतौ ।। ४-६-
गायतामन्यगोपानां प्रशंसापरमौ क्वचित् । मयूरकेकानुगतौ गोपवेषुप्रवादकौ ।। ४-६-
गाः पालयन्तौ च पुनः सहितौ बल-केशवौ । भ्रममाणौ वने तस्मिन् रम्यं तालवनं गतौ ।। ५-८-
तत्तु तालवनं दिव्यं धेनुको नाम दानवः । मृगमांसकृताहारः सदाध्यास्ते खराकृतिः ।। ५-८-
तत्तु तालवन पक्क-फलसम्पत्समन्वितम् । दृष्ट्वा स्पृहान्विता गोपाः फलादानेऽब्रु वन्, वचः ।। ५-८-
हे राम! हे कृष्ण! सदा धेनुकेनैष रक्ष्यते । भूप्रदेशो यतस्तस्मात् पक्कानीमानि सन्ति वै ।। ५-८-
फलानि पश्य तालानां गन्धामोदितदींशि च । वयमत्तुमभीप्सामः पात्यन्तां यदि रोचसे ।। ५-८-
इति गोपकुमाराणां श्रुत्वा सङ्कर्षणो वचः । कृष्णश्व पातयामास भुवि तालफलानि वै ।। ५-८-
फलानां पततां शब्दमाकर्ण्य स दुरासदः । आजगाम सुदुष्टात्मा कोपादू दैतेयगर्द्दभः ।। ५-८-
पद्भयामुभाभ्यां स तदा पश्विमाभ्यां बली बलम् । जघानोरसि ताभ्याञ्च स च तेनाप्यगृह्यत ।। ५-८-
गृहीत्वा भ्रामणेनैव सोऽम्बरे गतजीवितम् । तस्मिन्नेव च चिक्षेप वेगेन तृणराजनि ।। ५-८-
ततः फलान्यनेकानि तालाग्रान्निपतन् खरः । पृथिव्यां पातयामास महावातोऽम्बुदानिव ।। ५-८-
अन्यानप्यस्य वै ज्ञातीनागतान् दैत्यगर्द्दभान् । कृष्णाश्विक्षेप तालाग्र बलभद्रश्व लीलया ।। ५-८-
क्षणेनालङ्कृता पृथ्वी पक्कस्तालफलैस्तथा । दैत्यगर्द्दभदेहैश्व मैत्रेय! शुशुभेऽधिकम् ।। ५-८-
ततो गावो निराबाधास्तस्मिंस्तालवने द्रिज! नवशस्य सुख चेरुर्यन्न भुक्तमभूत् पुरा ।। ५-८-
श्रीपराशर उवाच तस्मिन्रासभदैतेये सानुगे विनिपातिते । सौम्यं तद्गोपगोपीनां रम्यं तालवनं बभौ ॥ ५,९.
ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ । हत्वा धेनुकदैतेयं भाण्डीरवटमागतौ ॥ ५,९.
क्ष्वेलमानौ प्रगायन्तौ विचिन्वन्तौ च पादपान् । चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः ॥ ५,९.
निर्योगपाशस्कन्धौ तौ वनमालाविभूषितौ । शुशुभाते महात्मानौ बालशृङ्गाविवर्षभौ ॥ ५,९.
सुवर्णाञ्जनचूर्णाभ्यां तौ तदा रूषितांबरौ । महेन्द्रायुधसंयुक्तौ श्वेतकृष्णाविवांबुदौ ॥ ५,९.
चेरतुर्लौकसिद्धाभिः क्रीडाभिरितरेतरम् । समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ ५,९.
मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् । तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥ ५,९.
ततस्त्वान्दोलिकाभिश्च नियुद्धैश्च महाबलौ । व्यायामं चक्रतुस्तत्र क्षेपणीयैस्तथाश्मभिः ॥ ५,९.
तल्लिप्सुरसुरस्तत्र ह्युभयो रममाणयोः । आजगाम प्रलंबाख्यो गोपवेषतिरोहितः ॥ ५,९.
सोऽवगाहत निःशङ्कस्तेषां मध्यममानुषः । मानुषं वपुरास्थाय प्रलंबो दानवोत्तमः ॥ ५,९.
तयोशिछ्द्रान्तरप्रेप्सुरविषह्यममन्यत । कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ ५,९.
हरिणाक्रीडनं नाम बालक्रीडनकं ततः । प्रकुर्वन्तो हि ते सर्वे द्वौद्वौ युगपदुत्थितौ ॥ ५,९.
श्रीदाम्ना सह गोविन्दः प्रलंबेन तथा बलः । गोपालौरपरैश्चान्ये गोपालाः पुप्लुवुस्ततः ॥ ५,९.
श्रीदामानं ततः कृष्णः प्रलंबं रोहिणीसुतः । जितवान्कृष्णपक्षीयैर्गोपैरन्ये पराजिताः ॥ ५,९.