और्व उवाच इत्येतत् पितृभिर्गीतं भावाभावप्रयोजनम् । यः करोति कृतं तेन श्राद्धं भवति पार्थिव
विष्णुपुराणम्/तृतीयांशः/अध्यायः १५ औव उवाच । ब्राह्मणान् भोजयेच्छ्राद्धे यद्गुणांस्तान्निबोध मे
त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णष्षडङ्गवित् । वेदविच्छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः
ऋत्विक् स्वस्रेयदौहित्रजामातृश्वशुरास्तथा । मातुलोऽथ तपोनिष्ठः पञ्चाग्न्यभिरतस्तथा । शिष्याः सम्बन्धिनश्चैव मातापितृरतश्च यः
एतान्नियोजयेच्छ्राद्धे पूर्वोक्तान् प्रथमे नृप । ब्राह्मणान् पितृतुष्ट्यर्थमनुकल्पेष्वनन्तरान्
मित्रध्रुक्कुनखी क्लीबः श्यावदन्तस्तथा द्विजः । कन्यादूषयिता वह्निवेदोज्झः सोमविक्रयी
अभिशस्तस्तथा स्तेनः पिशुनो ग्रामयाजकः । भृतकाध्यापकस्तद्वद् भृतकाध्यापितश्च यः
परपूर्वापतिश्चैव मातापित्रोस्तथोज्झकः । वृषलीसूतिपोष्टा च वृषलीपतिरवे च
तथा देवलकश्चैव श्राद्धे नार्हति केतनम्
प्रथमेऽह्नि बुधः शस्ताञ्छोत्रियादीन् निमन्त्रयेत् । कथयेच्च तथैवैषां नियोगान् पितृदैविकान्
ततः क्रोधव्यवायादीनायासं तैर्द्विजैस्सह । यजमानो न कुर्वीत दोषस्तत्र महानयम्
श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च । व्यवायी रेतसो गर्त्ते मज्जयत्यात्मनः पितॄन्
तस्मात् प्रथममत्रोक्तं द्रिजाग्र्याणं निमन्त्रणम् । अनिमन्त्र्य द्विजानेवमागतान् भोजयेद् यतीन्
पादशौचादिना गेहमागतान् पूजयेद् द्विजान्
पवित्रपाणिराचान्तानासनेषूपवेशयेत् । पितॄणामयुजो युग्मान् देवानामिच्छया द्विजान्
देवानामेकमेकं वा पितॄणाञ्च नियोजयेत्
तथा मातामहश्वाद्धं वैश्वदेवसमन्वितम् । कुर्वीत भक्तिसम्पन्नस्तन्त्रं वा वैश्वदैविकम्
प्राङमुखान् भोजयेद् विप्रान् देवानामुभयात्मकान् । पितृमातामहानाञ्च भोजयेच्चाप्युदङ्मुखान्
पृथक् तयोः केचिदाहुः श्राद्धस्य करणां नृप । एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः
विष्टरार्थं कुशं दत्त्वा सम्पूज्यार्ध्यं विधानतः । कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया
यवाम्बुना च देवानां दद्यादर्घ्यं विधानवित् । स्रग्गन्धधूपदीपांश्च तेभ्यो दद्याद्यथाविधि
पितॄणामपसव्यं तत् सर्वमेवोपकल्पयेत् । अनुज्ञाञ्च ततःप्राप्य दत्त्वा दर्भान् द्विधाकृतान्
मन्त्रपूर्वं पितॄणान्तु कृर्याच्चावाहनं बुधः । तिलाम्बुना चापसव्यं दद्यादर्घ्यादिकं नृप
काले तत्रातिथिं प्राप्तमन्नकामं नृपाध्वगम् । ब्रह्मणैरभ्यनुज्ञातः कामं तमपि भोजयेत्
योगिनो विविधै रूपैर्नराणामुपकारिणः । भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणाः
स्मादभ्यर्चयेत् प्राप्तं श्राद्धकालेऽतिथिं बुधः । श्राद्धक्रियाफलं हन्ति नरेन्द्रापूजितोऽतिथिः
जुहुयाद् व्यञ्जनक्षारवर्जमन्नं ततोऽनले । अनुज्ञातो द्रिजैस्तैस्तु त्रिकृत्वः पुरुषर्षभ
अग्नये कव्यवाहाय स्वाहेत्यादौ नृपाहुतिः । सोमाय वै पितृमते दातव्या तदनन्तरम्
वैवस्वताय चैवान्या तृतीया दीयते ततः । हुतावशिष्टमल्पान्नं पितृपात्रेषु निर्वपेत्
ततोऽन्नं मुष्टमत्यर्थमभीष्टमतिसंस्कृतम् । दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम्