पूतनाया विनाशश्व शकटस्य विपर्य्ययः । विना वातादि-दोषेण द्रु मयोः पतनं तथा ।। ४-६-
इति कृत्वा मतिं सर्व्वे गमने ते व्रजौकसः । ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्बयताम् ।। ४-६-
ततः क्षणेनः प्रययु शकटैर्गोधनैस्तथा । यूथशो वतूसबालांश्व कालयन्तो व्रजौकसः ।। ४-६-
द्रव्यावयवनिद्धूतं क्षणामात्रेण तत् तथा । काक-काकी-समाकीर्णां व्रजस्थानमभूदू द्रिज ।। ४-६-
वृन्दावनं भगवता कृष्णोनाक्लिष्टकर्म्मणा । शुभेन मनसा ध्यातं गबां वृद्धिमभीप्सता ।। ४-६-
ततस्तत्रातिरूक्षेऽपि घर्म्मकाले द्रिजोत्तम! प्रावृटूकाल इवोद्भूतं नवं शस्यं समन्ततः ।। ४-६-
स समावासितः सर्व्वो व्रजो वृन्दावने ततः । खकटोवाचटपर्य्यन्तश्वन्द्रार्द्धाकारसंस्थितिः ।। ४-६-
वत्सपालौ च संवृत्तौ राम-दामोदरौ ततः एकस्थानस्थितौ गोष्ठे चेरतुर्बाललीलया ।। ४-६-
बर्हिपत्रकृतापीड़ौ वन्यपुष्पावतंसकौ । गोपवेणुकृतातोद्य-पत्रवाद्यकृतस्वनौ ।। ४-६-
काकपक्षधरौ बालौ कुमाराविव पावकी । हसन्तौ च रमन्तौ च चेरतुस्तै महाबलौ ।। ४-६-
कालेन गच्छता तौ तु सप्तवर्षौ महाव्रजे । सर्व्वस्य जगतः पालौ वत्सपालौ बभूवतुः ।। ४-६-
प्रावृटूकालस्ततोऽतीव मेघौघस्थगिताम्बरः । बभूव वारिधाराभिरैक्यं कुर्व्वन् दिशामिव ।। ४-६-
प्ररूढ़नवशस्याञया शक्रगोपाचिता मही । तदा मारकतीवासीत् पद्मरागविभूषिता ।। ४-६-
जग्मुरुन्मार्गवाहानि निम्रगाम्भांसि सर्व्वतः । मनांसि दुव्विनीतानां प्राप्य लक्ष्मीं नवामिव ।। ४-६-
न रेजेऽन्तरितश्वन्द्रो निर्म्मलो मलिनैर्घनैः । सद्राक्यवादो मूर्खाणां प्रगलूभाभिरिवोक्तिभिः ।। ४-६-
निगु णोनापि चापेन शक्रस्य गगने पदम् । अवाप्यताविवेकस्य नृपस्येव परिग्रहे ।। ४-६-
मेघपृष्ठे बलाकानां रराज विमला ततिः । दुर्वृत्ते वृत्त्चेष्टेव कुलीनस्यातिशोभना ।। ४-६-
न बबन्धाम्बरे स्थैर्य्य विद्यु दत्यन्तचञ्चला । मैत्रीव प्रवरे पुंसि दुर्ज्जनेन प्रयोजिता ।। ४-६-
मार्गा बभूवुरस्पष्टा नवशस्यचयावृताः । अर्थान्तरमनुप्राप्ताः प्रजड़ानामिवोक्तयः ।। ४-६-
क्वचिदू गोपैः समं रम्यं गेयनृत्यरतावुभौ । चेरतुः क्कचिदत्यर्थं शीतवृक्षतलाश्रयौ ।। ४-६-
क्वचित् कदम्बस्रक्-चित्रौ मयूरस्त्रग्धरौ क्वचित् । विचित्रौ क्वचिदास्येतां विविधैर्गिरिधातुभिः ।। ४-६-
पर्णशय्यासु संसुप्तौ क्वचिन्नद्रान्तरैषिणौ । क्वचिद् गर्ज्जति जीमूते हाहाकारखादृतौ ।। ४-६-
गायतामन्यगोपानां प्रशंसापरमौ क्वचित् । मयूरकेकानुगतौ गोपवेषुप्रवादकौ ।। ४-६-
गाः पालयन्तौ च पुनः सहितौ बल-केशवौ । भ्रममाणौ वने तस्मिन् रम्यं तालवनं गतौ ।। ५-८-
तत्तु तालवनं दिव्यं धेनुको नाम दानवः । मृगमांसकृताहारः सदाध्यास्ते खराकृतिः ।। ५-८-
तत्तु तालवन पक्क-फलसम्पत्समन्वितम् । दृष्ट्वा स्पृहान्विता गोपाः फलादानेऽब्रु वन्, वचः ।। ५-८-
हे राम! हे कृष्ण! सदा धेनुकेनैष रक्ष्यते । भूप्रदेशो यतस्तस्मात् पक्कानीमानि सन्ति वै ।। ५-८-
फलानि पश्य तालानां गन्धामोदितदींशि च । वयमत्तुमभीप्सामः पात्यन्तां यदि रोचसे ।। ५-८-
इति गोपकुमाराणां श्रुत्वा सङ्कर्षणो वचः । कृष्णश्व पातयामास भुवि तालफलानि वै ।। ५-८-
फलानां पततां शब्दमाकर्ण्य स दुरासदः । आजगाम सुदुष्टात्मा कोपादू दैतेयगर्द्दभः ।। ५-८-