तस्य पादप्रहारेणा शकटं परिवर्त्तितम् । विध्वस्तकुम्भभाणडं बै विपरीतं पपात च ।। ४-६-
ततो हाहाकृतं सर्व्वो गोपगोपीजनो द्रिज ! आजगामाथ ददृशे बालमुत्तानशायिनम् ।। ४-६-
गोपाः केनेति केनेदं शकटं पखिर्त्तितम् । तत्रैवं बालकाश्वोचुर्बालेनानेन पातितम् ।। ४-६-
ततः पुनरतीवासन् गोपा विस्मितचेतसः । नन्दगोपोऽपि जग्राह बालमत्यन्तविस्मितः ।। ४-६-
यशोदा शकटारूढ़भग्रभाण्डकपालिकाः । शकटं चार्च्चयामास दधि-पुष्प-फलाक्षतैः ।। ४-६-
गर्गश्व गोकुले तत्र वसुदेवप्रणोदितः । प्रच्छन्न एव गोपानां संस्काराकरोत् तयोः ।। ४-६-
ज्येष्ठञ्च राममित्याह कृष्णञ्चवै तथापरम् । गर्गो मतिमतां श्रेष्ठो नाम कुर्व्वन् महामतिः ।। ४-६-
स्वल्पेनैव हि कालेन रिङ्गिणौ तौ तदा ब्रजे । घृष्टजानुकरौ तौ हि बभूवतुरुभावपि ।। ४-६-
करीषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः । न निवारायितु शेके यशोदा न च रोहिणी ।। ४-६-
गोवांटमध्ये क्रीड़न्तौ वत्सवाटगतौ पुनः । तदहर्जातगोवतूसपुच्छाकर्षणतत्परौ ।। ४-६-
यदा यशोदा तौ बालावेकस्थानचरावुभौ । शशाकि नो वाररितु क्रीड़न्तावतिचञ्चलौ ।। ४-६-
यशोदा यष्टिमादाय कोपेनानुगता च तम् । कृष्णां कमलपत्राक्षं तर्ज्जयन्ती रुषा तदा ।। ४-६-
यदि शक्रोषि गच्छ त्वमतिचञ्चलचेष्टित ! इत्युक्त्वा च निजं कर्म्म सा चकार कुटुम्बिनी ।। ४-६-
व्यग्रायामथ तस्यां स कर्षमाण उदूखलम् । यमलार्ज्जुनमध्येन जगाम कमलेक्षणः ।। ४-६-
कर्षता वृक्षयोर्मध्ये तिर्य्यगूगतमुदूखलम् । भग्रावुत्तुङ्गशाखाग्रो तेन तौ यमलार्ज्जुनौ ।। ४-६-
ततः कटकटाशब्दं समाकर्ण्य च कातरः । आजगाम ब्रजजनो ददृशे च महाद्र मौ ।। ४-६-
भग्रस्कन्धौ निपतितौ भग्रशाखौ महीतले । नवोदूगताल्पदन्तांशु-सितहासञ्च बालकम् ।। ४-६-
तयोर्मध्यगतं बद्धं दाम्रा गाढ़ तथोदरे । ततश्व दामोदरतां स ययौ दामबन्धनात् ।। ४-६-
गोपबृद्धास्ततः सर्व्वे नन्दगोपपुरोगमाः । मन्त्रयामासुरुद्रिग्रा महोत्पातातिभीरवः ।। ४-६-
स्थानेनेह न नः कार्य्यं गच्छामोऽन्यन्महावनम् । उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः ।। ४-६-
पूतनाया विनाशश्व शकटस्य विपर्य्ययः । विना वातादि-दोषेण द्रु मयोः पतनं तथा ।। ४-६-
इति कृत्वा मतिं सर्व्वे गमने ते व्रजौकसः । ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्बयताम् ।। ४-६-
ततः क्षणेनः प्रययु शकटैर्गोधनैस्तथा । यूथशो वतूसबालांश्व कालयन्तो व्रजौकसः ।। ४-६-
द्रव्यावयवनिद्धूतं क्षणामात्रेण तत् तथा । काक-काकी-समाकीर्णां व्रजस्थानमभूदू द्रिज ।। ४-६-
वृन्दावनं भगवता कृष्णोनाक्लिष्टकर्म्मणा । शुभेन मनसा ध्यातं गबां वृद्धिमभीप्सता ।। ४-६-
ततस्तत्रातिरूक्षेऽपि घर्म्मकाले द्रिजोत्तम! प्रावृटूकाल इवोद्भूतं नवं शस्यं समन्ततः ।। ४-६-
स समावासितः सर्व्वो व्रजो वृन्दावने ततः । खकटोवाचटपर्य्यन्तश्वन्द्रार्द्धाकारसंस्थितिः ।। ४-६-
वत्सपालौ च संवृत्तौ राम-दामोदरौ ततः एकस्थानस्थितौ गोष्ठे चेरतुर्बाललीलया ।। ४-६-
बर्हिपत्रकृतापीड़ौ वन्यपुष्पावतंसकौ । गोपवेणुकृतातोद्य-पत्रवाद्यकृतस्वनौ ।। ४-६-
काकपक्षधरौ बालौ कुमाराविव पावकी । हसन्तौ च रमन्तौ च चेरतुस्तै महाबलौ ।। ४-६-