उत्पन्नश्वापि मृत्युर्मे भूतपूर्व्वः स वै किल । इत्येतदू बालिका प्राह देवकीगर्भसम्भवा ।। ५-४-
तस्मादू बालेषु परमो यत्रः कार्य्यो महीतले । यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्रतः ।। ५-४-
इत्याज्ञाप्यासुरान् कंसः प्रविश्यात्मगृहं ततः । मुमोच वसुदेवञ्च देवकीञ्च निरोधतः ।। ५-४-
युवयोर्घातिता गर्भा वृथैवैते मयाधुना । कोऽप्यन्य एव नाशाय बालो मम समुदूगतः ।। ५-४-
तदलं परितापेन नूनं तद्भाविनो हि ते । अर्भका युवयोर्दोषाच्चायुषो यद्रियोजिताः ।। ५-४-
इत्याश्वास्य विमुक्त्वां च कंसस्तौ परिशङ्कितः । अन्तर्गहं द्रिजश्वेष्ठ प्रविवेश पुनः स्वकम् ।। ५-४-
विमुक्तो वसुदेवोऽस्य नन्दस्य शकटं गतः । प्रह्टष्टं दृष्टवान् नन्दं पूत्रो जातो ममेति वै ।। ५-५-
वसुदेवोऽपि तं प्राह दिष्ठया दिष्ठयति सादरम् । वार्द्धकेऽपि समुत्पन्नस्तनयोऽयं तवाघुना ।। ५-५-
दत्तो हि वार्षिकः सर्व्वो भवद्भिर्नृ पतेः करः । यदर्थमागतास्तस्मान्नावस्थेयं महाधनाः ।। ५-५-
यदर्थमागताः कार्य्यं तन्निष्पन्नं किमास्यते ? भतद्भिर्गम्यतां नन्द! तच्छीघ्रं निजगोकुलम् ।। ५-५-
ममापि बालकस्तत्र रोहिणीप्रसवी हि यः । स रक्षणीयो भवता यथायं तनयो निजः ।। ५-५-
इत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः । शकटारोपितैर्भाण्डैः करं दत्त्वा महाबलाः ।। ५-५-
वसतां गोकुले तेषां पूतना बालघातिनी । सुप्तं कृषूणमुपादाय रात्रौ तस्मै ददौ स्तनम् ।। ५-५-
यस्मै यस्मै स्तनं पूतना सम्प्रयच्छति । तस्य तस्य क्षणोनाङ्ग बालकस्योपहन्यते ।। ५-५-
कुषूणस्तस्याः स्तनं गाढ़ं कराभ्यामवपीड़ितम् । गृहोत्वा प्राणसहितं पपौ कोपसमन्वितः ।। ५-५-
सा विमुक्तमहारावा विच्छिन्नस्त्रंयुबन्धना । पपात पूतना भूमौ म्रियमाणतिभीषणा ।। ५-५-
तन्नादश्रुतिसन्त्रासात् प्रबुद्धास्ते व्रजौकसः । ददृशुः पूतनोत्सङ्गे कृषूणं ताञ्च निपातिताम् ।। ५-५-
आदाय कृषूणं सन्त्रस्ता यशोदापि द्रिजोत्तम! गोपुच्छं भ्राम्य हस्तेन बालदोषमपाकरोत् ।। ५-५-
गोः करीषमुपादाय नन्दगोफोऽपि मस्तके । कृषूणस्य प्रददौ रक्षां कुर्वंश्चैतदुदोरयन् ।। ५-५-
रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः । यस्य नाभिसमुदूभूतपङ्कजादभवज्जगत् ।। ५-५-
येन दंष्ट्राग्रविधृता धारयत्यवनी जगत् । वराहरूपधूगू देवः स त्वां रक्षतु केशवः ।। ५-५-
नखाङूकुरविनिर्भिन्न-वैरिवक्षःस्थलो विभुः । नृसिंहरूपी सर्व्वत्र स त्वां रक्षतु केशवः ।। ५-५-
वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् । त्रिविक्रमः क्रमाकान्त-त्रैलोक्यः स्फुरदायुधः ।। ५-५-
शिरस्ते पातु गोविन्दः कणठं रक्षतु केशवः । गुह्यञ्च जठरं विष्णुर्जङ्घा-पादौ जनार्द्दनः ।। ५-५-
मुखं बाहू प्रबाहू च मनः सर्व्वेन्द्रियाणि च । रक्षत्वव्याहतैश्वर्य्यस्तव नारयणोऽव्ययः ।। ५-५-
शाङ्ग-चक्र-गदा-खडूग-शङ्खनादहताः क्षयम् । गच्छन्तु प्रते-कुष्माण्ड-राक्षसा ये तवाहिताः ।। ५-५-
त्वां पातु दिक्षु वैकुणठो विदिक्षु मधुसूदनः । ह्टषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ।। ५-५-
एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः । शायितः शकटस्याधो बालपर्य्यङ्किकातले ।। ५-५-
ते च गोपा महदू दृष्ट्वा पूतनायाः कलेवरम् । मृतायाः परमं त्रासं विस्मयं परमं ययुः ।। ५-५-
कदाचिच्छकटाधस्ताच्छयानो मधुसूदनः । चिक्षेप चरणावूद्ध्व स्तन्यार्थी प्ररुरोद च ।। ४-६-