अद्यवै देव । कंसोऽयं कुरुते मम घातनम् । अवतीर्ण इति ज्ञात्वा त्वमस्मिन मम मन्दिरे ।। ५-३-
योऽनन्तरूपोऽखिलविशरूपो गर्भेषु लोकान् वपुषा बिभर्त्ति । प्रसीदतामेष स देवदेवः स्वमाययावुष्कृतबालरूपः ।। ५-३-
उपसहर सर्व्वात्मन् । रूपमेज्वतुर्भुजम् । जानातु मावतारं ते कंसोऽयं दितिजाधमः ।। ५-३-
ततोऽहं यत् त्वया पूर्व्वं पुत्रार्थिन्या तदद्य ते । सफलं देवि। सञ्जातं जातोऽहं यत् तवोदरात् ।। ५-३-
इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तम । वसुदेवोऽपि तं रात्रावादाय प्रययौ बहिः ।। ५-३-
मोहिताश्वाभवंस्तत्र रक्षिणो योगनिद्रया । मथुराद्रारपालाश्व ब्रजत्यानकदुन्दुभौ ।। ५-३-
वर्षतां जलदानाञ्च तोयमत्युल्वणं निशि । संछाद्यानुययौ शेषः फणेनानकदुन्दुभिम् ।। ५-३-
यमुनां चातिगम्भीरां नानावर्त्तसमाकुलाम् । वसुदेवो वहन् विष्णु जानुमात्रबहां ययौ ।। ५-३-
कंसस्य करमादाय तत्रेवाभ्यागतांस्तटे । नन्दादीन् गोपवृन्दांश्व यमुनाया ददर्श सः ।। ५-३-
तस्मिन् काले यशोदापि मोहिता योगनिद्रया । तामेव कन्यां मैत्रेय । प्रसूता मोहिते जने ।। ५-३-
वसुदेवोऽपि विन्यस्य बालमादाय दारिकाम् । यसोदाशायने तुर्णमाजगामामितद्यु तिः ।। ५-३-
ददृशे च प्रबुद्धा सा यशोदा जातमात्मजम् । नीलोतूपलदलश्यामं ततोऽत्यर्थं मुदं ययौ ।। ५-३-
आदाय वसुदेवोऽपि दारिकां निजमन्दिरम् । देवकीशयने न्यस्य यथापूर्व्वमतिष्ठत ।। ५-३-
ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः । कंसायावेदयामासुर्देवकीप्रसवं द्रिज ।। ५-३-
कंसस्तूर्णमुपेत्यैनां ततो जग्राह बालिकाम् । मुञ्च मुञ्चति देवक्या सन्नकण्ठया निवारितः ।। ५-३-
चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थितिम् । अवाप रूपञ्च महत् सायुधाष्टमहाभुजम् ।। ५-३-
प्रजहास तथैवोच्चैः कंसञ्च रुषिताब्रवीत् । किं मया क्षिप्तया मूढ़!जातो यस्तवां वधिष्यति ।। ५-३-
सर्व्वस्वभूतो देवानामासीन्मृत्युः पुरा स ते । तदेतत् सम्प्रधार्य्याशु क्रियतां हितमात्मनः ।। ५-३-
इत्युक्त्वा प्रययौ देवी दिंव्यस्त्रगू-गन्ध-भूषणा । पश्यतो भोजराजस्य स्तुता सिद्धैर्विहायसि ।। ५-३-
कंसस्ततोद्रिग्रमनाः प्राह सव्वीन महासुरान् । प्रलम्बकेशिप्रमुखानाहूयासुरपुङ्गवान् ।। ५-४-
हे प्रलम्ब! महाबाहो ! केशिन् !धेनुक!पूतने ! अरिष्टाद्यस्तथा चान्यैः श्रूयतां वचनं मम ।। ५-४-
मां हन्तुममरैर्यत्रः कृतः किल दुरात्मभिः । मद्रीर्य्यतापितैवींरो न त्वेतान् गणयाम्यहम् ।। ५-४-
किमिन्द्रणाल्पवीर्य्येण किं हरेणैकचारिणा । हरिणा वापि किं साध्यं छिद्रष्वसुरघातिना ।। ५-४-
किमादित्यैः किं वसुभिरल्पवीय्यैः किमग्रिभिः । किञ्चान्यैरमरैः सर्व्वैर्मदूबाहुबलनिर्ज्जितैः ।। ५-४-
किं न दृष्टोऽमरपतिर्मया संयुगमेत्य सः । पृष्ठेनैव वहन् वाणानपागच्छन्न वक्षसा ।। ५-४-
मद्राष्ट्रे वारिता वृष्टिर्यदा शक्रेणा किं तदा । मद्राणभिन्नैर्जलदैरापोऽमुक्ता यथेप्सिताः ।। ५-४-
किमुर्व्ब्यामवनीपाला मद्रबाहुबलभीरवः । न सर्व्वे सन्नतिं याता जरासन्धमृते गुरुम् ।। ५-४-
अमरेषु च मेऽवज्ञा जायते दैत्यपुङ्गवाः । हास्यं मे जायते बींरास्तेषु यत्रपरेष्वपि ।। ५-४-
तथापि खलु दुष्टानां तेषामभ्यधिकं मया । अपकाराय देत्येन्द्रा यतनीयं दुरात्मनाम् ।। ५-४-
तदू ये यशस्विनः केचित् पृथिव्यां ये च यज्विनः । कार्य्यो देबापकाराय तेषां सर्व्वात्मना वधः ।। ५-४-