एवं संस्तूयमाना सा देवैर्दैवमधारयत् । गर्भेण पुण्डरीकाक्षं जगतस्त्राणकारणम् ।। ५-३-
ततोऽखिलजगत्पद्मबोधायाच्युतभान्ना । देवकीपूर्व्वसन्ध्यायामाविर्भूतं महात्मना ।। ५-३-
तज्जन्मदिनमत्यर्थमाह्लाद्यमलदिङूमुखम् । बभूव सर्वलोकस्य कौमुदी शशिनो यथा ।। ५-३-
सन्तः सन्तोषमधिकं प्रशमं चण्डमारुतः । प्रसादं निम्रगा याता जायमाने जनार्दृने ।। ५-३-
सिन्धवो निजशब्देन वाद्य चक्त र्मनोहरम् । जगुर्गन्धर्व्वपतयो ननृतुश्वाप्सरोगणाः ।। ५-३-
ससृजुः पुष्पवर्षाणि देवा भुव्यन्तरीक्षगाः । जज्वलुश्वाग्रयः शान्ता जायमाने जनार्द्दने ।। ५-३-
मध्यरात्रेऽखिलाधारे जायमाने जनार्दने । मन्द्र जगर्ज्जुर्जलदाः पूष्पचवृष्टिचो द्रिच ।। ५-३-
फुल्लेन्दीवरपत्राभं चतुर्बीहुमुदीक्ष्य तम् । श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ।। ५-३-
अभिष्टूय च तं वागभिः प्रसन्नप्तभिर्महामतिः । विज्ञापयामास तदा कंसाद्भीतो द्रिजोत्तम ।। ५-३-
ज्ञातोऽसि देवदेवेश । शचङ्ख-चक्र-गदाधर । दिव्यरूपमिदं देव प्रसादेनोपसंहर ।। ५-३-
अद्यवै देव । कंसोऽयं कुरुते मम घातनम् । अवतीर्ण इति ज्ञात्वा त्वमस्मिन मम मन्दिरे ।। ५-३-
योऽनन्तरूपोऽखिलविशरूपो गर्भेषु लोकान् वपुषा बिभर्त्ति । प्रसीदतामेष स देवदेवः स्वमाययावुष्कृतबालरूपः ।। ५-३-
उपसहर सर्व्वात्मन् । रूपमेज्वतुर्भुजम् । जानातु मावतारं ते कंसोऽयं दितिजाधमः ।। ५-३-
ततोऽहं यत् त्वया पूर्व्वं पुत्रार्थिन्या तदद्य ते । सफलं देवि। सञ्जातं जातोऽहं यत् तवोदरात् ।। ५-३-
इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तम । वसुदेवोऽपि तं रात्रावादाय प्रययौ बहिः ।। ५-३-
मोहिताश्वाभवंस्तत्र रक्षिणो योगनिद्रया । मथुराद्रारपालाश्व ब्रजत्यानकदुन्दुभौ ।। ५-३-
वर्षतां जलदानाञ्च तोयमत्युल्वणं निशि । संछाद्यानुययौ शेषः फणेनानकदुन्दुभिम् ।। ५-३-
यमुनां चातिगम्भीरां नानावर्त्तसमाकुलाम् । वसुदेवो वहन् विष्णु जानुमात्रबहां ययौ ।। ५-३-
कंसस्य करमादाय तत्रेवाभ्यागतांस्तटे । नन्दादीन् गोपवृन्दांश्व यमुनाया ददर्श सः ।। ५-३-
तस्मिन् काले यशोदापि मोहिता योगनिद्रया । तामेव कन्यां मैत्रेय । प्रसूता मोहिते जने ।। ५-३-
वसुदेवोऽपि विन्यस्य बालमादाय दारिकाम् । यसोदाशायने तुर्णमाजगामामितद्यु तिः ।। ५-३-
ददृशे च प्रबुद्धा सा यशोदा जातमात्मजम् । नीलोतूपलदलश्यामं ततोऽत्यर्थं मुदं ययौ ।। ५-३-
आदाय वसुदेवोऽपि दारिकां निजमन्दिरम् । देवकीशयने न्यस्य यथापूर्व्वमतिष्ठत ।। ५-३-
ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः । कंसायावेदयामासुर्देवकीप्रसवं द्रिज ।। ५-३-
कंसस्तूर्णमुपेत्यैनां ततो जग्राह बालिकाम् । मुञ्च मुञ्चति देवक्या सन्नकण्ठया निवारितः ।। ५-३-
चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थितिम् । अवाप रूपञ्च महत् सायुधाष्टमहाभुजम् ।। ५-३-
प्रजहास तथैवोच्चैः कंसञ्च रुषिताब्रवीत् । किं मया क्षिप्तया मूढ़!जातो यस्तवां वधिष्यति ।। ५-३-
सर्व्वस्वभूतो देवानामासीन्मृत्युः पुरा स ते । तदेतत् सम्प्रधार्य्याशु क्रियतां हितमात्मनः ।। ५-३-
इत्युक्त्वा प्रययौ देवी दिंव्यस्त्रगू-गन्ध-भूषणा । पश्यतो भोजराजस्य स्तुता सिद्धैर्विहायसि ।। ५-३-
कंसस्ततोद्रिग्रमनाः प्राह सव्वीन महासुरान् । प्रलम्बकेशिप्रमुखानाहूयासुरपुङ्गवान् ।। ५-४-