प्रावृट्काले च नभसि कृष्णाष्टम्यामहं निशि । उत्पत्स्यामि नवम्यां तु प्रसूतिं त्वमवाप्स्यसि ॥ ५,१.
यशोदाशयने मां तु देवक्यास्त्वामनिन्दिते । मच्छक्तिप्रोरितमतिर्वसुदेवो नयिष्यति ॥ ५,१.
कंसश्च त्वामुपादाय देवि शैलशिलातले । प्रक्षेप्स्यत्यन्तारिक्षे च संस्थानं त्वमवाप्स्यसि ॥ ५,१.
ततस्त्वां शतदृक्छक्रः प्रणम्य मम गौरवात् । प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥ ५,१.
त्वं च शुंभनिशुंभादीन्हत्वा दैत्यान्सहस्रशः । स्थानैरनेकैः पृथिवीमशेषां मण्डयिष्यसि ॥ ५,१.
त्वं भूतिः सन्नतिः क्षान्तिः कान्तिर्द्यौः पृथिवी धृतिः । लज्जापुष्टी रुषा या तु काचिदन्या त्वमेव सा ॥ ५,१.
ये त्वामार्येति दुर्गेति वेदगर्भांबिकेति च । भद्रेति भद्रकालीति क्षेमदा भग्यदेति च ॥ ५,१.
प्रातश्चैवापराह्ने च स्तोष्यन्त्यानम्रमूर्तयः । तेषां हि प्रार्थितं सर्वं मत्प्रसादाद्भविष्यति ॥ ५,१.
सुरामांसोपहरैश्च भक्ष्यभोज्यैश्च पूजिता । नॄणामशेषसामांस्त्वं प्रसन्ना संप्रदास्यसि ॥ ५,१.
यथोक्तं सा जगद्धात्री देवदेवेन वै तदा । षड़गर्भ-गर्भविन्यासं चक्र चान्यस्य कर्षणम् ।। ५-२-
सप्तमे रोहिणी प्राप्ते गर्भेगर्भं ततो हरिः । लोकत्रयोपकाराय देवक्याः प्रविवेश वै ।। ५-२-
योगनिद्रा यशोदायास्तस्मिन्नेव ततो दिने । सम्भूता जठरे तदूदू यथोक्तं परमेष्ठिना ।। ५-२-
ततो ग्रहगणाः सम्यक् प्रचचार दिवि द्रिज । विष्णोरंशे बुवं याते ऋतवश्वाभवन् शुभाः ।। ५-२-
न सेहे देवकी द्रष्टुं कश्विदप्यतितेजसा । जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः ।। ५-२-
अदृष्टां पुरुषैः स्त्रीभिर्देवकीं देवतागणाः । विभ्राणां वपुषा विष्णुं तुष्टु वुस्तामहर्निशम् ।। ५-२-
प्रकृतिस्त्व परा सुक्ष्मा ब्रह्मगर्भाभवः पुरा । ततो वाणी जगद्धातुर्व्वेदगर्भासि शोभने ।। ५-२-
सूर्य्यस्वरूपगर्भासि सृष्टिभूता सनातनि । बीजभूता तु सर्व्वस्य यज्ञभूताभवस्त्रयी ।। ५-२-
फलगर्भा त्वमेवेज्या वह्निगर्भा तथारणिः । अदितिर्देवगर्भा त्वं दैत्यगर्भा तथा दितिः ।। ५-२-
ज्योतूस्त्रा वासरगर्भा त्वं ज्ञानगर्भासि सन्नतिः । नयगर्भा परा नीतिर्लज्जा त्वं प्रश्रयोदूहा ।। ५-२-
कामगर्भा तथेच्छा त्वं तुष्टिः सन्तोषगर्भिणी । मेधा च भोधगर्भासि धैर्य्यगर्भोदूहा धृतिः ।। ५-२-
ग्रहर्क्षतारकागर्भा द्यौरस्य खिलहैतुकी । एता विभूतयो देवि । तथान्याश्व सहस्त्रशः ।। ५-२-
तथासङ्खया जगद्धात्रि । साम्प्रतं जठरे तव । समुद्राद्रि-द्रीप-वन-पत्तनभूषणा ।। ५-२-
ग्राम-खर्व्वट-खैटाढया समस्ता पृथिवी शुभे । समस्तवह्नयोऽम्भांसि सकलाश्व समीरणाः ।। ५-२-
ग्रहर्क्षतारकाचित्रं विमानशतसङूकुलम् । अवकाशमशेषस्य यदूददातिनभःस्थलम् ।। ५-२-
भूर्लोकश्व भुवर्लोकः स्वर्लोकोऽथ महर्ज्जनः । तपश्व ब्रह्मलोकश्व ब्रह्माण्डमखिलं शुभे ।। ५-२-
तदन्तरे स्थिता देवा दैत्य-गन्धर्व्व-चारणाः । महोरगास्तथ यक्षा राक्षसाः प्रेतगुह्यकाः ।। ५-२-
मनुष्याः पशवश्वान्ये ये ज जीवा यशस्विनि । तैरन्तः स्थैरनन्तोऽसौ सर्वेशः सर्व्वभावनः ।। ५-२-
रूपकर्म्मखरूपाणि न परिच्छेदगोचरे । यस्याखिलप्रमाणानि सि विष्णुर्गर्भगस्तव ।। ५-२-
त्वं खाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिरम्बरे । त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिरम्बरे । त्वं सर्व्वलोकरक्षार्थमवतीर्णा महीतले ।। ५-२-
प्रसीद देवि । सर्व्वस्य जगतः शं शुभे । कुरु । प्रीत्या त्वं धारयेशानं धृतं येनाखिलं जगत् ।। ५-२-