एते वयं वृत्ररिपुस्तथायं नासत्यदस्त्रौ वरुणस्तथैव । इमे च रुद्रा वसवःससूर्याःसमीरणाग्निप्रसुखास्तथान्ये ॥ ५,१.
सुराःसमस्ताःसुरनाथकार्यमेभिर्मया यच्च तदीश सर्वाम् । आज्ञापयाज्ञां परिपालयन्तस्तवैव तिष्ठाम सदास्तदोषाः ॥ ५,१.
श्रीपराशर उवाच एवं संस्तूयमानस्तु भगवान्परमेश्वरः । उज्जहारात्मनः केशौ सितकृष्णौ महामुने ॥ ५,१.
उवाच च सुरानेतौ मत्केशौ वसुधातले । अवतीर्य भुवो भारक्लेशहानिं करिष्यतः ॥ ५,१.
सुराश्च सकलाःस्वांशैरवतीर्य महीतले । कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर्महासुरैः ॥ ५,१.
ततः क्षयमशेषास्ते दैतेया धरमीतले । प्रयास्यन्ति न संदेहो मद्दृपातविचूर्णिताः ॥ ५,१.
वसुदेवस्य या पत्नी देवकी देवतोपमा । तत्रायमष्टमो गर्भो मत्केशो भविता सुराः ॥ ५,१.
अवतीर्य च तत्रायं कंसं घातयिता भुवि । कालनेमीं समुद्भूतमित्युक्त्वान्तर्दधे हरिः ॥ ५,१.
अदृश्याय ततस्तस्मै प्रणिपत्य महामुने । मेरुपृष्ठं सुरा जग्मुरवतेरुश्च भूतले ॥ ५,१.
कंसाय चाष्टमो गर्भो देवक्या धरणीधरः । भविष्यतीत्याच चक्षे भगवान्नारदो मुनिः ॥ ५,१.
कंसोऽपि तदुपश्रुत्य नारदात्कुपितस्ततः । देवकीं वसुदेवं च गृहे गुप्तावधारयत् ॥ ५,१.
वसुदेवेन कंसाय तेनैवोक्तं यथा पुरा । तथैव वसुदेवोऽपि पुत्रमर्पितवान् द्विज ॥ ५,१.
हिरण्यकशिपोः पुत्राःषड्गर्भा इति विश्रुताः । विष्णुप्रयुक्ता स्तान्निद्राक्रमाद्गर्भानयोजयत् ॥ ५,१.
योगनिद्रा महामाया वैष्णवी मोहितं यया । अविद्यया जगत्सर्वं तामाह भगवान्हरिः ॥ ५,१.
श्रीभगवानुवाच निद्रे गच्छ ममादेशात्पातालातलसंश्रयान् । एकैकत्वेन षड्गर्भान्देवकीजठरं नय ॥ ५,१.
हतेषु तेषु कंसेन शेषाख्योंशस्ततो मम । अंशांशोनादरे तस्याःसप्तमः संभविष्यति ॥ ५,१.
गोकुले वसुदेवस्य भार्यान्या रोहिणी स्थिता । तस्याःस संभूतिसमं देवि नेयस्त्वयोदरम् ॥ ५,१.
सप्तमो भोजरा जस्य भयाद्रोधोपरोधतः । देवक्याः पितितो गर्भ इति लोको वदिष्यति ॥ ५,१.
गर्भसंकर्षणात्सोऽथ लोके संकर्षणेति वै । संज्ञामवाप्स्यते वीरः श्वेताद्रिशिखरोपमः ॥ ५,१.
ततोऽहं संभविष्यामि देवकीजठरे शुभे । भर्गं त्वया यशोदाया गन्तव्यमविलंबितम् ॥ ५,१.
प्रावृट्काले च नभसि कृष्णाष्टम्यामहं निशि । उत्पत्स्यामि नवम्यां तु प्रसूतिं त्वमवाप्स्यसि ॥ ५,१.
यशोदाशयने मां तु देवक्यास्त्वामनिन्दिते । मच्छक्तिप्रोरितमतिर्वसुदेवो नयिष्यति ॥ ५,१.
कंसश्च त्वामुपादाय देवि शैलशिलातले । प्रक्षेप्स्यत्यन्तारिक्षे च संस्थानं त्वमवाप्स्यसि ॥ ५,१.
ततस्त्वां शतदृक्छक्रः प्रणम्य मम गौरवात् । प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥ ५,१.
त्वं च शुंभनिशुंभादीन्हत्वा दैत्यान्सहस्रशः । स्थानैरनेकैः पृथिवीमशेषां मण्डयिष्यसि ॥ ५,१.
त्वं भूतिः सन्नतिः क्षान्तिः कान्तिर्द्यौः पृथिवी धृतिः । लज्जापुष्टी रुषा या तु काचिदन्या त्वमेव सा ॥ ५,१.
ये त्वामार्येति दुर्गेति वेदगर्भांबिकेति च । भद्रेति भद्रकालीति क्षेमदा भग्यदेति च ॥ ५,१.
प्रातश्चैवापराह्ने च स्तोष्यन्त्यानम्रमूर्तयः । तेषां हि प्रार्थितं सर्वं मत्प्रसादाद्भविष्यति ॥ ५,१.
सुरामांसोपहरैश्च भक्ष्यभोज्यैश्च पूजिता । नॄणामशेषसामांस्त्वं प्रसन्ना संप्रदास्यसि ॥ ५,१.
यथोक्तं सा जगद्धात्री देवदेवेन वै तदा । षड़गर्भ-गर्भविन्यासं चक्र चान्यस्य कर्षणम् ।। ५-२-