अन्यूनश्चाप्यवृद्धिश्च स्वाधीनो नादिमान्वशी । क्लमतन्द्री भयक्रोधकामादिभिरसंयुतः ॥ ५,१.
निरवद्यः परः प्राप्तेर्निरधिष्ठोऽक्षरः क्रमः । सर्वेश्वरः पराधारो धाम्नां धामात्मकोऽक्षयः ॥ ५,१.
सकलावरणानीतनिरालंबनभावन । महाविभूतिसंस्थान नमस्ते पुरुषोत्तम ॥ ५,१.
नाकारणात्कारणाद्वा कारणाकारणान्न च । शरीरग्रहणं वापि धर्मत्राणाय केवलम् ॥ ५,१.
श्रीपराशर उवाच इत्येवं संस्तवं श्रुत्वा मनसा भगवानजः । ब्रह्माणमाह प्रीतेन विश्वरूपं प्रकाशयन् ॥ ५,१.
श्रीभगवानुवाच भोभो ब्रह्मंस्त्वया मत्तःसह देवैर्यदिष्यते । तदुच्यतामशेषं च सिद्धमेवावधार्यताम् ॥ ५,१.
श्रीपराशर उवाच ततो ब्रह्मा हरेर्दिव्य विश्विरूपमवेक्ष्य तत् । तुष्टाव भूयो देवेषु साध्वसावनतात्मसु ॥ ५,१.
ब्रह्मोवाच नमो नमस्तेस्तु सहस्रकृत्वःसहस्रबाहो बहुवक्त्रपाद । नमोनमस्ते जगतः प्रवृत्तिविनाशसंस्थानकराप्रमेय ॥ ५,१.
सूक्ष्मातिसूक्ष्मातिबृहत्प्रमाम गरीयसामप्यतिगौरवात्मन् । प्रधानबुद्धीन्द्रियवत्प्रधानमूलात्परात्मन्भगवन्प्रसीद ॥ ५,१.
एषा मही देव महीप्रसूतैर्महासुरैः पीडितशैलबन्धा । परायणं त्वां जगतामुपैति भारावतारार्थमपारसार ॥ ५,१.
एते वयं वृत्ररिपुस्तथायं नासत्यदस्त्रौ वरुणस्तथैव । इमे च रुद्रा वसवःससूर्याःसमीरणाग्निप्रसुखास्तथान्ये ॥ ५,१.
सुराःसमस्ताःसुरनाथकार्यमेभिर्मया यच्च तदीश सर्वाम् । आज्ञापयाज्ञां परिपालयन्तस्तवैव तिष्ठाम सदास्तदोषाः ॥ ५,१.
श्रीपराशर उवाच एवं संस्तूयमानस्तु भगवान्परमेश्वरः । उज्जहारात्मनः केशौ सितकृष्णौ महामुने ॥ ५,१.
उवाच च सुरानेतौ मत्केशौ वसुधातले । अवतीर्य भुवो भारक्लेशहानिं करिष्यतः ॥ ५,१.
सुराश्च सकलाःस्वांशैरवतीर्य महीतले । कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर्महासुरैः ॥ ५,१.
ततः क्षयमशेषास्ते दैतेया धरमीतले । प्रयास्यन्ति न संदेहो मद्दृपातविचूर्णिताः ॥ ५,१.
वसुदेवस्य या पत्नी देवकी देवतोपमा । तत्रायमष्टमो गर्भो मत्केशो भविता सुराः ॥ ५,१.
अवतीर्य च तत्रायं कंसं घातयिता भुवि । कालनेमीं समुद्भूतमित्युक्त्वान्तर्दधे हरिः ॥ ५,१.
अदृश्याय ततस्तस्मै प्रणिपत्य महामुने । मेरुपृष्ठं सुरा जग्मुरवतेरुश्च भूतले ॥ ५,१.
कंसाय चाष्टमो गर्भो देवक्या धरणीधरः । भविष्यतीत्याच चक्षे भगवान्नारदो मुनिः ॥ ५,१.
कंसोऽपि तदुपश्रुत्य नारदात्कुपितस्ततः । देवकीं वसुदेवं च गृहे गुप्तावधारयत् ॥ ५,१.
वसुदेवेन कंसाय तेनैवोक्तं यथा पुरा । तथैव वसुदेवोऽपि पुत्रमर्पितवान् द्विज ॥ ५,१.
हिरण्यकशिपोः पुत्राःषड्गर्भा इति विश्रुताः । विष्णुप्रयुक्ता स्तान्निद्राक्रमाद्गर्भानयोजयत् ॥ ५,१.
योगनिद्रा महामाया वैष्णवी मोहितं यया । अविद्यया जगत्सर्वं तामाह भगवान्हरिः ॥ ५,१.
श्रीभगवानुवाच निद्रे गच्छ ममादेशात्पातालातलसंश्रयान् । एकैकत्वेन षड्गर्भान्देवकीजठरं नय ॥ ५,१.
हतेषु तेषु कंसेन शेषाख्योंशस्ततो मम । अंशांशोनादरे तस्याःसप्तमः संभविष्यति ॥ ५,१.
गोकुले वसुदेवस्य भार्यान्या रोहिणी स्थिता । तस्याःस संभूतिसमं देवि नेयस्त्वयोदरम् ॥ ५,१.
सप्तमो भोजरा जस्य भयाद्रोधोपरोधतः । देवक्याः पितितो गर्भ इति लोको वदिष्यति ॥ ५,१.
गर्भसंकर्षणात्सोऽथ लोके संकर्षणेति वै । संज्ञामवाप्स्यते वीरः श्वेताद्रिशिखरोपमः ॥ ५,१.
ततोऽहं संभविष्यामि देवकीजठरे शुभे । भर्गं त्वया यशोदाया गन्तव्यमविलंबितम् ॥ ५,१.