क्रियतां तन्महाभागा मम भारावतारणम् । यथा रसातलं नाहं गच्छेयमतिविह्वला ॥ ५,१.
इत्याकर्ण्य धरावाक्यमशेषैस्त्रिदशेश्वरैः । भुवो भारावतारार्थं ब्रह्मा प्राह प्रचोदितः ॥ ५,१.
ब्रह्मोवाच यथाह वसुधा सर्वं सत्यमेव दिवौकसः । अहं भवो भवन्तश्च सर्वे नारायणात्मकाः ॥ ५,१.
विभूतयश्च यास्तस्य तासामेव परस्परम् । आधिक्यन्यू६ अताबाध्यबाधकत्वेन वर्तते ॥ ५,१.
तदागच्छत गच्छामः क्षीराब्धेस्तटमुत्तमम् । तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥ ५,१.
सर्वथैव जगत्यर्थे स सर्वात्मा जगन्मयः । सत्त्वांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥ ५,१.
श्रीपराशर उवाच इत्युक्त्वा प्रययो तत्र सह देवैः पितामहः । समाहितमनाश्चैवं तुष्टाव गरुडध्वजम् ॥ ५,१.
ब्रह्मोवाच द्वे विद्ये त्वमनाम्नायपरा चैवापरा तथा । त एव भवतो रूपे मूर्तामूर्तात्मिके प्रभो ॥ ५,१.
द्वे ब्रह्मणी त्वणीयोतिस्थूलात्मन्सर्व सर्ववित् । शब्दब्रह्मपरं चैव ब्रह्म ब्रह्ममयस्य यत् ॥ ५,१.
ऋग्वेदस्त्वं यजुर्वेदःसामवेदस्त्वथर्वणः । शिक्षाकल्पो निरुक्तं च च्छन्दो ज्योतिषमेव च ॥ ५,१.
इतिहासपुराणे च तथा व्याकरणं प्रभो । मीमांसा न्यायशास्त्रं च धर्मशास्त्राण्यधोक्षज ॥ ५,१.
आत्माऽत्मदेहगुणवद्विचाराचारि यद्वच । तदप्याद्यपते नान्यदध्यात्मात्मस्वरूपवत् ॥ ५,१.
त्वमव्यक्तमनिर्देश्यमचिन्त्यानामवर्मवत् । अपाणिपादरूपं च शुद्धं नित्यं परात्परम् ॥ ५,१.
शृणोष्यकर्णः परिपश्यसि त्वमचक्षुरूपो बहुरूपरूपः । अपादहस्तो जवनो ग्रहीता त्वं वेत्सि सर्वं च सर्ववेद्यः ॥ ५,१.
अणोरणीयां समसत्स्वरूपं त्वां पश्यतो ज्ञाननिवृत्तिरग्र्या । धीरस्य धीरस्य बिभर्ति नान्यद्वरेण्यरूपात्परतः परात्मन् ॥ ५,१.
त्वं विश्वनाभिर्भुवनस्य गोप्ता सर्वाणि भूतानि तवान्तराणि । यद्भूतभव्यं यदणोरणीयः पुमांस्त्वमेकः प्रकृतेः परस्तात् ॥ ५,१.
एकश्चतुर्धा भगवान्हुताशो वर्चोविभूतं जगतो ददासि । त्वं विश्वतश्चक्षुरनन्तमूर्ते त्रेधा पदं त्वं निदधासि धातः ॥ ५,१.
यथाग्निरेको बहुधा समिध्यते विकारभेदैरविकाररूपः । तथा भवान्सर्वगतैकरूपी रूपाण्यशेषाण्यनुपुष्यतीश ॥ ५,१.
एकं तवाग्र्यं परमं पदं यत्पश्यन्ति त्वां सूरयो ज्ञानदृश्यम् । त्वत्तो नान्यत्किञ्चिदस्ति स्वरूपं यद्वा भूतं यच्च भव्यं परात्मन् ॥ ५,१.
व्यक्ताव्यक्तस्वरूपस्त्वं समष्टिव्यष्टिरूपवान् । सर्वज्ञःसर्वनित्सर्वशक्तिज्ञानबलर्धिमान् ॥ ५,१.
अन्यूनश्चाप्यवृद्धिश्च स्वाधीनो नादिमान्वशी । क्लमतन्द्री भयक्रोधकामादिभिरसंयुतः ॥ ५,१.
निरवद्यः परः प्राप्तेर्निरधिष्ठोऽक्षरः क्रमः । सर्वेश्वरः पराधारो धाम्नां धामात्मकोऽक्षयः ॥ ५,१.
सकलावरणानीतनिरालंबनभावन । महाविभूतिसंस्थान नमस्ते पुरुषोत्तम ॥ ५,१.
नाकारणात्कारणाद्वा कारणाकारणान्न च । शरीरग्रहणं वापि धर्मत्राणाय केवलम् ॥ ५,१.
श्रीपराशर उवाच इत्येवं संस्तवं श्रुत्वा मनसा भगवानजः । ब्रह्माणमाह प्रीतेन विश्वरूपं प्रकाशयन् ॥ ५,१.
श्रीभगवानुवाच भोभो ब्रह्मंस्त्वया मत्तःसह देवैर्यदिष्यते । तदुच्यतामशेषं च सिद्धमेवावधार्यताम् ॥ ५,१.
श्रीपराशर उवाच ततो ब्रह्मा हरेर्दिव्य विश्विरूपमवेक्ष्य तत् । तुष्टाव भूयो देवेषु साध्वसावनतात्मसु ॥ ५,१.
ब्रह्मोवाच नमो नमस्तेस्तु सहस्रकृत्वःसहस्रबाहो बहुवक्त्रपाद । नमोनमस्ते जगतः प्रवृत्तिविनाशसंस्थानकराप्रमेय ॥ ५,१.
सूक्ष्मातिसूक्ष्मातिबृहत्प्रमाम गरीयसामप्यतिगौरवात्मन् । प्रधानबुद्धीन्द्रियवत्प्रधानमूलात्परात्मन्भगवन्प्रसीद ॥ ५,१.
एषा मही देव महीप्रसूतैर्महासुरैः पीडितशैलबन्धा । परायणं त्वां जगतामुपैति भारावतारार्थमपारसार ॥ ५,१.