कथाशरीरत्वमवाप यद्वै मांधातृनामा भुवि चक्रवर्त्ती । श्रुत्वापि तत्को हि करोति साधुर्ममत्वमान्मन्यपि मंदचेताः
भगीरथाद्यास्सगरं ककुत्स्थो दशननो राघवलक्ष्मणौ च । युधिष्ठिराद्याश्च बभूवुरेते सत्यं न मिथ्या क्व नु ते न विद्मः
ये सांप्रतं ये च नृपा भविष्याः प्रोक्ता मया विप्रवरोग्रवीयाः । एते तथाऽन्ये च तथाभिधेयाः सर्वे भविष्यंति यथैव पूर्वे
एत द्विदित्वा न नरेण कार्यं ममत्वमात्मन्यपि पंडितेन । तिष्ठंतु तावत्तनयात्मजायाः क्षेत्रादयो ये च शरीरिणोऽन्ये
मैत्रेय उवाच नृपाणां कथितःसर्वो भवता वंशविस्तरः । वंशानुचरितं चैव यथावदनुवर्णितम् । अंशावतारो ब्रह्मर्षे योऽयं यदुकुलोद्भवः । विष्णोस्तं विस्तरेणाहं श्रोतुमिच्छामि तत्त्वतः ॥ ५,१.
चकार यानि कर्माणि भगवान् पुरुषोत्तमः । अंशांशेनावतीर्योर्व्यां तत्र तानि मुने वद ॥ ५,१.
श्रीपारशर उवाच मैत्रेय श्रूयतामेतद्यत्पृष्टोऽहमिह त्वया । विष्णोरंशांशसंभूतिचरितं जगतो हितम् ॥ ५,१.
देवकस्य सुतां पूर्वं वसुदेवो महामुने । उपयेमे महाभागां देवकीं देवतोपमाम् ॥ ५,१.
कंसस्तयोर्वररथं चोदयामास सारथिः । वसुदेवस्य देवक्या संयोगे भोजनन्दनः ॥ ५,१.
आथान्तरिक्षे वागुच्चैः कंसमाभाष्य सादरम् । मेघगंभीरनिर्घोषं समाभाष्येदमब्रवीत् ॥ ५,१.
यामेतां वहसे मूढ सह भर्त्रा रथे स्थिताम् । अस्यास्तवाष्टमो गर्भः प्राणानपहरिष्यति ॥ ५,१.
श्रीपराशर उवाच इत्याकर्ण्यं समुत्पाट्य खड्गं कंसो महाबलः । देवकीं हन्तुमारब्धो वसुदेवोऽब्रवीदिदम् ॥ ५,१.
न हन्तव्या महाभाग देवकी भवतानघ । समर्पयिष्ये सकलान्गर्भानस्योदरोद्भवान् ॥ ५,१.
श्रीपराशर उवाच तथेत्याह ततः कंसो वसुदेवं द्विजोत्तम । न घातयामास च तां देवकींसत्यगौरवात् ॥ ५,१.
एतस्मिन्नेवकाले तु भूरिभारावपीडिता । जगाम धरणी मेरौ समाजं त्रिदिवौकसाम् ॥ ५,१.
स ब्रह्मकान्सुरान्सर्वान्प्रणिपत्याथ मेदिनि । कथयामास तत्सर्वं खेदात्करुणभाषिणी ॥ ५,१.
भूमिरुवाच अग्निःसुवर्णस्य गुरुर्गवां सूर्यः परो गुरुः । ममाप्यखिललो कानां कुरुर्नारायणो गुरुः ॥ ५,१.
प्रजापतिपतिर्ब्रह्म पूर्वेषामपि पूर्वजः । कलाकाष्ठानिमेषात्मा कालश्चाव्यक्तमूर्तिमान् ॥ ५,१.
तदंशभूतःसर्वैषां समूहो वःसुरोत्तमाः ॥ ५,१.
आदित्या सरुतःसाध्या रुद्रा वस्वश्विवह्नयः । पितरो ये च लोकानां स्रष्टारोऽत्रिपुरोगमाः ॥ ५,१.
एते तस्याप्रमेयस्य विष्णो रूपं महात्मनः ॥ ५,१.
यक्षराक्षसदैतेयपिशाचोरगदानवाः । गन्धर्वाप्सरसश्चैवरूपं विष्णोर्महात्मनः ॥ ५,१.
ग्रहर्क्षतारकाचित्रगगनाग्निजलानिलाः । अहं च विषयाश्चैव सर्व विष्णुमयं जगत् ॥ ५,१.
तथा चानेकरूपस्य यस्य रूपाण्य हर्निशम् । बाध्यबाधकतां यान्ति कल्लोला इव सागरे ॥ ५,१.
तत्सांप्रतममी दैत्याः कालनेमिपुरोगमाः । मर्त्यलोकं समाक्रम्य बाधन्तेऽहर्निशं प्रजाः ॥ ५,१.
कालनेमिर्हतो योऽसौ विष्णुना प्रभविष्णुना । उग्रसेनसुतः कंसःसंभूतःस महासुरः ॥ ५,१.
आरिष्टो धेनुकः केशी प्रलंबो नरकस्तथा । सुंदोऽसुरस्तथात्युग्रो बाणश्चापि बलेःसुतः ॥ ५,१.
तथान्ये च महावीर्या नृपाणां भवनेषु ये । समुत्पन्ना दुरात्मानस्तान्न संख्यातुमुत्सहे ॥ ५,१.
अक्षोहिण्योत्र बहुला दिव्यमूर्तिधराःसुराः । महाबलानां दृप्तानां दैत्येन्द्रणां ममोपरि ॥ ५,१.
तद्भूरिभार पीडार्ता न शक्नोम्यमरेश्वराः । बिभर्तुमात्मानमहमिति विज्ञापयामि वः ॥ ५,१.