पृथिव्युवाच । कथमेष नरेंद्रा णां मोहो बुद्धिमतामपि । येन केन सधर्माणोप्यतिविश्वस्तचेतसः
पूर्वमात्मजयं कृत्वा जेतुमिच्छंति मंत्रिणः । ततो भृत्यांश्च पौरांश्च जिगीषंते तथा रिपून्
क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् । इत्यासक्तधियो मृत्युं न पश्यंत्यविदूरगम्
समुद्रा वरणं याति भूमंडलमथो वशम् । कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम्
उत्सृज्य पूर्वजा याता यां नादाय गतः पिता । तां मामतीव मूढत्वाज्जेतुमिच्छंति पार्थिवाः
मत्कृते पितृपुत्राणां भ्रातॄणां चापि विग्रहः । जायतेत्यंतमोहेन ममत्वादृतचेतसाम्
पृथ्वी ममेयं सकला ममैषा मदन्वयस्यापि च शाश्वतीयम् । योयो मृतेऽन्यत्र बभूव राजा कुबुद्धिरासीदिति तस्यतस्य
दृष्ट्वा ममत्वादृतचित्तमेकं विहाय मां मृत्युवशं व्रजंतम् । तस्यानुयस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवं करोति
पृथ्वी ममैषाऽऽशु परित्यजैनां वदंति ये दूतमुखैस्स्वशत्रून् । नराधिपास्तेषु ममातिहासः पुनश्च मूढेषु दयाऽभ्युपैति
श्रीपराशर उवाच। इत्येते धरणीगीताश्श्लोका मैत्रेय यैश्श्रुताः । ममत्वं विलयं याति तपत्यर्के यथा हिमम्
इत्येष कथितः सम्यङ्मनोर्वंशो मया तव । यत्र स्थितिप्रवृत्तस्य विष्णोरंशांशका नृपाः
शृणोति य इमं भक्त्या मनोर्वंशमनुक्रमात् । तस्य पापमश्षॐ वै प्रणश्यत्यमलात्मनः
धनधान्यर्द्धिमतुलां प्राप्नोत्यव्याहतेंद्रि यः । श्रुत्वैवमखिलं वंशं प्रशस्तं शशिसूर्ययोः
इक्ष्वाकुजह्नुमांधातृसगराविक्षितान्रघून् । ययातिनहुषाद्यांश्च ज्ञात्वा निष्ठामुपागतान्
महाबलान्महावीर्याननन्तधनसंचयान् । कृतान्कालेन बलिना कथाश्षोआ!न्नराधिपान्
श्रुत्वा न पुत्रदारादौ गृहक्षेत्रादिके तथा । द्र व्यादौ वा कृतप्रज्ञो ममत्वं कुरुते नरः
तप्तं तपो यैः पुरुषप्रवीरैरुद्वाहुभिर्वर्षगणाननेकान् । इष्ट्वा सुयज्ञैर्बलिनोतिवीर्याः कृतानुकालेन कथावशेषाः
पृथुस्समस्तान्विचचार लोकानव्याहतो यो विजितारिचक्रः । स कालवाताभिहतः प्रणष्टः क्षिप्तं यथा शाल्मलितूलमग्नौ
यः कार्त्तवीर्यो बुभुजे समस्तान्द्वीपान्समाक्रम्य हतारिचक्रः । कथाप्रसंगेष्वभिधीयमानस्स एव संकल्पविकल्पहेतुः
दशाननाविक्षतराघवाणामैश्वर्यमुद्भासितदिङ्मुखानाम् । भस्मापि शिष्टं न कथं क्षणेन भ्रूभंगपातेन धिगंतकस्य
कथाशरीरत्वमवाप यद्वै मांधातृनामा भुवि चक्रवर्त्ती । श्रुत्वापि तत्को हि करोति साधुर्ममत्वमान्मन्यपि मंदचेताः
भगीरथाद्यास्सगरं ककुत्स्थो दशननो राघवलक्ष्मणौ च । युधिष्ठिराद्याश्च बभूवुरेते सत्यं न मिथ्या क्व नु ते न विद्मः
ये सांप्रतं ये च नृपा भविष्याः प्रोक्ता मया विप्रवरोग्रवीयाः । एते तथाऽन्ये च तथाभिधेयाः सर्वे भविष्यंति यथैव पूर्वे
एत द्विदित्वा न नरेण कार्यं ममत्वमात्मन्यपि पंडितेन । तिष्ठंतु तावत्तनयात्मजायाः क्षेत्रादयो ये च शरीरिणोऽन्ये
मैत्रेय उवाच नृपाणां कथितःसर्वो भवता वंशविस्तरः । वंशानुचरितं चैव यथावदनुवर्णितम् । अंशावतारो ब्रह्मर्षे योऽयं यदुकुलोद्भवः । विष्णोस्तं विस्तरेणाहं श्रोतुमिच्छामि तत्त्वतः ॥ ५,१.
चकार यानि कर्माणि भगवान् पुरुषोत्तमः । अंशांशेनावतीर्योर्व्यां तत्र तानि मुने वद ॥ ५,१.
श्रीपारशर उवाच मैत्रेय श्रूयतामेतद्यत्पृष्टोऽहमिह त्वया । विष्णोरंशांशसंभूतिचरितं जगतो हितम् ॥ ५,१.
देवकस्य सुतां पूर्वं वसुदेवो महामुने । उपयेमे महाभागां देवकीं देवतोपमाम् ॥ ५,१.
कंसस्तयोर्वररथं चोदयामास सारथिः । वसुदेवस्य देवक्या संयोगे भोजनन्दनः ॥ ५,१.
आथान्तरिक्षे वागुच्चैः कंसमाभाष्य सादरम् । मेघगंभीरनिर्घोषं समाभाष्येदमब्रवीत् ॥ ५,१.