यदैव भगवान्विष्णोरंशो यातो दिवं द्विज । वसुदेवकुलोद्भूतस्तदैवात्रागतः कलिः
यावत्सपादपद्माभ्यां पस्पर्शेमां वसुंधराम् । तावत्पृथ्वीपरिष्वंगे समर्थो नाभवत्कलिः
गते सनातनस्यांशो! विष्णोस्तत्र भुवो दिवम् । तत्याज सानुजो राज्यं धर्म पुत्रो युधिष्ठिरः
विपरीतानि दृष्ट्वा च निमित्तानि हि पांडवः । याते कृष्णे चकाराऽथ सोऽभिषेकं परीक्षितः
प्रयास्यंति यदा चैते पूर्वाषाढां महर्षयः । तदा नंदात्प्रभृत्येष गतिवृद्धिं गमिष्यति
यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदा हनि । प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे
त्रीणि लक्षाणि वर्षाणां द्विज मानुष्यसंख्यया । षष्टिश्चैव सहस्राणि भविष्यत्येष वै कलिः
शतानि तानि दिव्यानां सप्त पंच च संख्यया । निश्श्षोए!ण गते तस्मिन्भविष्यति पुनः कृतम्
ब्राह्मणाः क्षत्त्रिया वैश्याश्शूद्रा श्च द्विजसत्तम । युगेयुगे महात्मानः समतीतास्सहस्रशः
बहुत्वान्नामधेयानां परिसंख्या कुलेकुले । पौनरुक्त्याद्धि साम्याच्च न मया परिकीर्त्तिता
देवापिः पौरवो राजा पुरुश्चेक्षाकुवंशजः । महायोगबलोपेतौ कलापग्रामसंश्रितौ
कृते युगे त्विहागम्य क्षत्रप्रावर्त्तकौ हि तौ । भविष्यतो मनोर्वंशबीजभूतौ व्यवस्थितौ
एतेन क्रमयोगेन मनुपुत्रैर्वसुंधरा । कृतत्रेताद्वापराणि युगानि त्रीणि भुज्यते
कलौ ते बीजभूता वै केचित्तिष्ठंति वै मुने । यथैव देवापिपुरू सांप्रतं समधिष्ठितौ
एष तूद्देशतो वंशस्तवोक्तो भूभुजां मया । निखिलो गदितुं शक्यो नैष वर्षशतैरपि
एते चान्ये च भूपाला यैरत्र क्षितिमंडले । कृतं ममत्वं मोहांधैर्नित्यं हेयकलेवरे
कथं ममेयमचला मत्पुत्रस्य कथं मही । मद्वंशस्येतिचिंतार्त्ता जग्मुरंतमिमे नृपाः
तेभ्यः पूर्वतराश्चान्ये तेभ्यस्तेभ्यस्तथा परे । भविष्याश्चैव यास्यंति तेषामन्ये च येऽप्यनु
विलोक्यात्मजयोद्योगं यात्राव्यग्रान्नराधिपान् । पुष्पप्रहासैश्शरदि हसंतीव वसुंधरा
मैत्रेय पृथिवीगीताञ्छ्लोकांश्चात्र निबोध मे । यानाह धर्मध्वजिने नजकायासितो मुनिः
पृथिव्युवाच । कथमेष नरेंद्रा णां मोहो बुद्धिमतामपि । येन केन सधर्माणोप्यतिविश्वस्तचेतसः
पूर्वमात्मजयं कृत्वा जेतुमिच्छंति मंत्रिणः । ततो भृत्यांश्च पौरांश्च जिगीषंते तथा रिपून्
क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् । इत्यासक्तधियो मृत्युं न पश्यंत्यविदूरगम्
समुद्रा वरणं याति भूमंडलमथो वशम् । कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम्
उत्सृज्य पूर्वजा याता यां नादाय गतः पिता । तां मामतीव मूढत्वाज्जेतुमिच्छंति पार्थिवाः
मत्कृते पितृपुत्राणां भ्रातॄणां चापि विग्रहः । जायतेत्यंतमोहेन ममत्वादृतचेतसाम्
पृथ्वी ममेयं सकला ममैषा मदन्वयस्यापि च शाश्वतीयम् । योयो मृतेऽन्यत्र बभूव राजा कुबुद्धिरासीदिति तस्यतस्य
दृष्ट्वा ममत्वादृतचित्तमेकं विहाय मां मृत्युवशं व्रजंतम् । तस्यानुयस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवं करोति
पृथ्वी ममैषाऽऽशु परित्यजैनां वदंति ये दूतमुखैस्स्वशत्रून् । नराधिपास्तेषु ममातिहासः पुनश्च मूढेषु दयाऽभ्युपैति
श्रीपराशर उवाच। इत्येते धरणीगीताश्श्लोका मैत्रेय यैश्श्रुताः । ममत्वं विलयं याति तपत्यर्के यथा हिमम्