दानमेव धर्महेतुः
स्वीकरणमेव विवाहहेतुः
सद्वेषधार्येव पात्रम्
दूरायतननोदकमेव तीर्थहेतुः
कपटवेषधारणमेव महत्त्वहेतुः
इत्येवमनेकदोषोत्तरे तु भूमंडले सर्ववर्णेष्वेव योयो बलवान्सस भूपतिर्भविष्यति
एवं चातिलुब्धकराजासहाश्शैलानामंतरद्रो णीः प्रजास्संश्रयिष्यंति
मधुशाकमूलफलपत्रपुष्पाद्याहाराश्च भविष्यंति
तरुवल्कलपर्णचीरप्रावरणाश्चातिबहुप्रजाश्शीतवातातपवर्षसहाश्च भविष्यंति
न च कश्चित्त्रयोविंशतिवर्षाणि जीविष्यति अनवरतं चात्र कलियुगे क्षयमायात्यखिल एवैष जनः
श्रौतस्मार्त्ते च धर्मे विप्लवमत्यंतमुपगते क्षीणप्राये च कलावश्षोजगत्स्रष्टुश्चराचरगुरोरादिमध्यांतरहितस्य ब्रह्ममयस्यात्मरूपिणो भगवतो वासुदेवस्यांशश्शंबलग्रामप्रधानब्राह्मणस्य विष्णुयशसो गृहेष्टगुणर्द्धिसमन्वितः कल्किरूपीजगत्यत्रावतीर्य सकलम्लेच्छदस्युदुष्टाचरणचेतसामश्षोआ!णामपरिच्छिन्नशक्तिमाहा-त्म्यः क्षयं करिष्यति स्वधर्मेषु चाखिलमेव संस्थापयिष्यति
अनंतरं चाश्षोकलेरवसाने निशावसाने विबुद्धानामिव तेषामेव जनपदानाममलस्फटिकदलशुद्धा मतयो भविष्यंति
तेषां च बीजभूतानामश्षोमनुष्याणां परिणतानामपि तत्कालकृतापत्यप्रसूतिर्भविष्यति
तानि च तदपत्यानि कृतयुगानुसारीण्येव भविष्यंति
अत्रोच्यते । यथा चंद्र श्च सूर्यश्च तथा तिष्यो बृहस्पतिः । एकराशौ समेष्यंति तदा भवति वै कृतम्
अतीता वर्त्तमानाश्च तथैवानागताश्च ये । एते वंश्षोउ! भूपालाः कथिता मुनिसत्तम
यावत्परीक्षितो जन्म यावन्नंदाभिषेचनम् । एतद्वर्षसहस्रं तु ज्ञेयं पंचाशदुत्तरम्
सप्तर्षीणां तु यौ पूर्वौ दृश्येते ह्युदितौ दिवि । तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि
तेन सप्तर्षयो युक्तास्तिष्ठंत्यब्दशतं नृणाम् । ते तु पारीक्षिते काले मघास्वासन्द्विजोत्तम
तदा प्रवृत्तश्च कलिर्द्वादशाब्दशतात्मकः
यदैव भगवान्विष्णोरंशो यातो दिवं द्विज । वसुदेवकुलोद्भूतस्तदैवात्रागतः कलिः
यावत्सपादपद्माभ्यां पस्पर्शेमां वसुंधराम् । तावत्पृथ्वीपरिष्वंगे समर्थो नाभवत्कलिः
गते सनातनस्यांशो! विष्णोस्तत्र भुवो दिवम् । तत्याज सानुजो राज्यं धर्म पुत्रो युधिष्ठिरः
विपरीतानि दृष्ट्वा च निमित्तानि हि पांडवः । याते कृष्णे चकाराऽथ सोऽभिषेकं परीक्षितः
प्रयास्यंति यदा चैते पूर्वाषाढां महर्षयः । तदा नंदात्प्रभृत्येष गतिवृद्धिं गमिष्यति
यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदा हनि । प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे
त्रीणि लक्षाणि वर्षाणां द्विज मानुष्यसंख्यया । षष्टिश्चैव सहस्राणि भविष्यत्येष वै कलिः
शतानि तानि दिव्यानां सप्त पंच च संख्यया । निश्श्षोए!ण गते तस्मिन्भविष्यति पुनः कृतम्
ब्राह्मणाः क्षत्त्रिया वैश्याश्शूद्रा श्च द्विजसत्तम । युगेयुगे महात्मानः समतीतास्सहस्रशः
बहुत्वान्नामधेयानां परिसंख्या कुलेकुले । पौनरुक्त्याद्धि साम्याच्च न मया परिकीर्त्तिता