अनृतमेव व्यवहारजयहेतुः
उन्नतांबुतैव पृथिवीहेतु
ब्रह्मसूत्रमेव विप्रत्वहेतुः
रत्नधातुतैव श्लाघ्यताहेतुः
लिंगधाराणमेवाश्रमहेतुः
अन्यायमेव वृत्तिहेतुः
दौर्बल्यमेवावृत्तिहेतुः
अभयप्रगल्भोच्चारणमेव पांडित्यहेतुः
अनाढ्यतैव साधुत्वहेतुः
स्नानमेव प्रसाधनहेतुः
दानमेव धर्महेतुः
स्वीकरणमेव विवाहहेतुः
सद्वेषधार्येव पात्रम्
दूरायतननोदकमेव तीर्थहेतुः
कपटवेषधारणमेव महत्त्वहेतुः
इत्येवमनेकदोषोत्तरे तु भूमंडले सर्ववर्णेष्वेव योयो बलवान्सस भूपतिर्भविष्यति
एवं चातिलुब्धकराजासहाश्शैलानामंतरद्रो णीः प्रजास्संश्रयिष्यंति
मधुशाकमूलफलपत्रपुष्पाद्याहाराश्च भविष्यंति
तरुवल्कलपर्णचीरप्रावरणाश्चातिबहुप्रजाश्शीतवातातपवर्षसहाश्च भविष्यंति
न च कश्चित्त्रयोविंशतिवर्षाणि जीविष्यति अनवरतं चात्र कलियुगे क्षयमायात्यखिल एवैष जनः
श्रौतस्मार्त्ते च धर्मे विप्लवमत्यंतमुपगते क्षीणप्राये च कलावश्षोजगत्स्रष्टुश्चराचरगुरोरादिमध्यांतरहितस्य ब्रह्ममयस्यात्मरूपिणो भगवतो वासुदेवस्यांशश्शंबलग्रामप्रधानब्राह्मणस्य विष्णुयशसो गृहेष्टगुणर्द्धिसमन्वितः कल्किरूपीजगत्यत्रावतीर्य सकलम्लेच्छदस्युदुष्टाचरणचेतसामश्षोआ!णामपरिच्छिन्नशक्तिमाहा-त्म्यः क्षयं करिष्यति स्वधर्मेषु चाखिलमेव संस्थापयिष्यति
अनंतरं चाश्षोकलेरवसाने निशावसाने विबुद्धानामिव तेषामेव जनपदानाममलस्फटिकदलशुद्धा मतयो भविष्यंति
तेषां च बीजभूतानामश्षोमनुष्याणां परिणतानामपि तत्कालकृतापत्यप्रसूतिर्भविष्यति
तानि च तदपत्यानि कृतयुगानुसारीण्येव भविष्यंति
अत्रोच्यते । यथा चंद्र श्च सूर्यश्च तथा तिष्यो बृहस्पतिः । एकराशौ समेष्यंति तदा भवति वै कृतम्
अतीता वर्त्तमानाश्च तथैवानागताश्च ये । एते वंश्षोउ! भूपालाः कथिता मुनिसत्तम
यावत्परीक्षितो जन्म यावन्नंदाभिषेचनम् । एतद्वर्षसहस्रं तु ज्ञेयं पंचाशदुत्तरम्
सप्तर्षीणां तु यौ पूर्वौ दृश्येते ह्युदितौ दिवि । तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि
तेन सप्तर्षयो युक्तास्तिष्ठंत्यब्दशतं नृणाम् । ते तु पारीक्षिते काले मघास्वासन्द्विजोत्तम
तदा प्रवृत्तश्च कलिर्द्वादशाब्दशतात्मकः