और्व उवाच (श्राद्धफलश्रुति-विशेषश्राद्धफल-पितृगीतावर्णनम्) और्व उवाच ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् । विश्वेदेवान्पितृगणान्वयांसि मनुजान्पशून्
सरीसृपानृषिगणान्यच्चान्यद्भूतसंज्ञितम् , श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत्
मासि मास्यसिते पक्षे पञ्चदश्यां नरेश्वर । तथाष्टकासु कुर्वीत काम्यान्कालाञ्छृणुष्व मे
श्राद्धार्हमागतं द्रव्यं विशिष्टमथ वा द्विजम् । श्राद्धं कुर्वीत विज्ञाय व्यतीपातेऽयने तथा
विषुवे चापि सम्प्राप्ते ग्रहणे शशिसूर्ययोः । समस्तेष्वेव भूपाल राशिष्वर्के च गच्छति
नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने । इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा
अमावास्या यदा मैत्रविशाखास्वातियोगिनी । श्राद्धैः पितृगणस्तृप्तिं तथाप्नोत्यष्टवार्षिकीम्
अमावास्या यदा पुष्ये रौद्रे चर्क्षे पुनर्वसौ । द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरोऽर्चिताः
वासवाजैकपादर्क्षे पितॄणां तृप्तिमिच्छताम् । वारुणे वाप्यमावास्या देवानामपि दुर्लभा
नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते । तदा हि तृप्तिदं श्राद्धं पितॄणां शृणु चापरम्
गीतं सनत्कुमारेण यथैलाय महात्मने । पृच्छते पितृभक्ताय प्रश्रयावनताय च
श्रीसनत्कुमार उवाच वैशाखमासस्य च या तृतीया नवम्यसौ कार्त्तिकशुक्लपक्षे । नभस्य मासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे
एता युगाद्याः कथिताः पुराणेष्वनन्तपुण्यास्तिथयश्चतस्रः । उपप्लवे चन्द्रमसो रवेश्च त्रिष्वष्टकास्वप्ययनद्वये च
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः । श्राद्धं कृते तेन समासहस्रं रहस्यमेतत्पितरो वदन्ति
माघेऽसिते पञ्चदशी कदाचिदुपैति योगं यदि वारुणेन । ऋक्षेण कालस्स परः पितॄणां न ह्यल्पपुण्यैर्नृप लभ्यतेऽसौ
काले धनिष्ठा यदि नाम तस्मिन्भवेत्तु भूपाल तदा पितृभ्यः । दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः
तत्रैव चेद्भाद्रपदा नु पूर्वाः काले यथावत्क्रियते पितृभ्यः । श्राद्धं परां तृप्तिमुपेत्य तेन युगं सहस्रं पितरस्स्वपन्ति
गंगां शतद्रूं यमुनां विपाशां सरस्वतीं नैमिशगोमतीं वा । तत्रावगाह्यार्चनमादरेण कृत्वा पितॄणां दुरितानि हन्ति
गायन्ति चैतत्पितरः कदानु हर्षादमी तृप्तिमवाप्य भूयः । माघासितांते शुभतीर्थतोयैर्यास्याम तृप्तिं तनयादिदत्तैः
चित्तं च वित्तं च नृणां विशुद्धं शस्तश्च कालः कथितो विधिश्च । पात्रं यथोक्तं परमा च भक्तिर्नृणां प्रयच्छन्त्यभिवाञ्छितानि
पितृगीतान्तथैवात्र श्लोकांस्ताञ्छृणु पार्थिव । श्रुत्वा तथैव भवता भाव्यं तत्रादृतात्मना
अपि धन्यः कुले जायादस्माकं मतिमान्नरः । अकुर्वन्वित्तशाठ्यं यः पिण्डान्नो निर्वपिष्यति
रत्नं वस्त्रं महायानं सर्वभोगादिकं वसु । विभवे सति विप्रेभ्यो योऽस्मानुद्दिश्य दास्यति
अन्नेन वा यथाशक्त्या कालेऽस्मिन्भक्तिनम्रधीः । भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः
असमर्थोऽन्नदानस्य धान्यमामं स्वशक्तितः । प्रदास्यति द्विजाग्रेभ्यः स्वल्पाल्पां वापि दक्षिणाम्
तत्राप्यसामर्थ्ययुतः कराग्राग्रस्थितांस्तिलान् । प्रणम्य द्विजमुख्याय कस्मैचिद्भूप दास्यति
तिलैस्सप्ताष्टभिर्वापि समवेतं जलाञ्जलिम् । भक्तिनम्रस्स्मुद्दिश्य भुव्यस्माकं प्रदास्यति
यतः कुतश्चित्सम्प्राप्य गोभ्यो वापि गवाह्निकम् । अभावे प्रीणयन्नस्माञ्च्छ्रद्धायुक्तः प्रदास्यति
सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः । सूर्यादिलोकपालानामिदमुच्चैर्वदिष्यति
न मेऽस्ति वित्तं न धनं च नान्यच्छ्राद्धोपयोग्यं स्वपितॄन्नतोऽस्मि । तृप्यन्तु भक्त्या पितरो मयैतौ कृतौ भुजौ वर्त्मनि मारुतस्य