तस्यापि शांतकर्णिस्ततः शिविश्रितस्तश्च शिवस्कंधस्तस्मादपि यज्ञश्रीस्ततो द्वियज्ञस्तस्माच्चंद्र श्रीः
तस्मात्पुलोमापिहि
एवमेवे त्रिंशच्चत्वार्यब्दशतानि षट्पंचाशदधिकानि पृथिवीं भोक्ष्यंति
आंध्रभृत्यास्सप्ताभीरप्रभृतयो दशगर्दभिनश्च भूभुजो भविष्यंति
ततष्षोडश भूपतयो भवितारः
ततश्चाष्टौ यवनाश्चतुर्दश तुरुष्कारा मुंडाश्च त्रयोदश एकादश मौना एते वै पृथुवीपतयः पृथिवीं दशवर्षशतानि नवत्यधिकानि भोक्ष्यंति
ततश्च मौना एकादश भूपतयोऽब्दशतानि त्रीणि पृथिवीं भोक्ष्यंति
तेषूत्सन्नेषु कैंकिला यवना भूपतयो भविष्यंत्यमूर्द्धाभिषिक्ताः
तेषामपत्यं विंध्यशक्तिस्ततः पुंरजयस्तस्माद्रा मचंद्र स्तस्माद्धर्मवर्मा ततो वंगस्ततोभून्नंदनस्ततस्सुनंदी तद्भ्राता नंदियशाश्शुक्रः प्रवीर एते वर्षशतं षड्वर्षाणि भूपतयो भविष्यंति
ततस्तत्पुत्रास्त्रयोदशैते बाह्लिकाश्च त्रयः
ततः पुष्पमित्राः पटुमियत्रास्त्रयोदशैकलाश्च सप्तांध्राः
ततश्च कोसलायां तु नव चैव भूपतयो भविष्यंति
नैषधास्तु त एव
मगधायां तु विश्वस्फटिकसंज्ञोऽन्यान्वर्णान्करिष्यति
कैवर्त्तबटुपुलिंदब्राह्मणान्राज्ये स्थपयिष्यति
उत्साद्याखिलक्षत्रजातिं नव नागाः पद्मवत्यां नाम पुर्यामनुगंगाप्रयागं गयाद्गुप्तांश्च मागधा भोक्ष्यंति
कोशलांध्रपुंड्रताम्रलिप्तसमतटपुरीं च देवरक्षितो रक्षिता
कलिंगमाहिषमहेंद्र भौमान् गुहा भोक्ष्यंति
नैषधनैमिषककालकोशकाञ्जनपदान्मणिधान्यकवंशा भोक्ष्यंति
त्रैराज्यमुषिकजनपदान्कनकाह्वयचो भोक्ष्यति
सौराष्ट्रावंत्यशूद्रा भीरान्नर्मदामरुभूविषयांश्च व्रात्यद्विजाभीरशूद्रा द्या भोक्ष्यंति
सिंधुतटदाविकोर्वीचंद्र भागाकाश्मीरविषयांश्च व्रात्यम्लेच्छशूद्रा दयो भोक्ष्यंति
एते च तुल्यकालास्सर्वे पृथिव्यां भूभुजो भविष्यंति
अल्पप्रसादा बृहत्कोपास्सार्वकालमनृताधर्मरुचयः स्त्रीबालगोवधकर्त्तारः परस्वादानरुचयोल्पसारास्तमिस्रप्राया उदितास्तमितप्राया अल्पायुषो महेच्छा ह्यल्पधर्मा लुब्धाश्च भविष्यन्ति
तैश्च विमिश्रा जनपदास्तच्छीलानुवर्त्तिनो राजाश्रयशुष्मिणो म्लेच्छाचाराश्च विपर्ययेण वर्त्तमानाः प्रजाः क्षपयिष्यंति
ततश्चानुदिनमल्पाल्पह्रासव्यवच्छेदाद्धर्मार्थयोर्जगतस्संक्षयो भविष्यति
ततश्चार्थ एवाभिजनहेतुः
बलमेवाश्षोधर्महेतुः
अभिरुचिरेव दांपत्यसंबंधहेतुः
स्त्रीत्वमेवोपभोगहेतुः