ततः कण्वानेषाभूर्यास्यति
देवभूतिं तु शुंगराजानं व्यसनिनं तस्यैवामात्यः कण्वो वसुदेवनामा तं निहत्य स्वयमवनीं भोक्ष्यति
तस्य पुत्रो भूमित्रस्तस्यापि नारायणः
नारायणात्मजस्सुशर्मा
एते काण्वायनाश्चत्वारः पंचचत्वारिंशद्वर्षाणि भूपतयो भविष्यंति
सुशर्माणं तु काण्वं तद्भूत्यो बलिपुच्छकनामा हत्वांध्रजातीयो वसुधां भोक्ष्यति
ततश्च कृष्णनामा तद्भ्राता पृथिवीपतिर्भविष्यति
तस्यापि पुत्रः शांतकर्णिस्तस्यापि पूर्णोत्संगस्तत्पुत्रश्शातकर्णिस्तस्माच्च लम्बोदरस्तस्माच्च पिलकस्ततो मेघस्वातिस्ततः पटुमान्
ततश्चारिष्टकर्मा ततो हालाहलः
हालाहलात्पललकस्ततः पुलिंदसेनस्ततः सुंदरस्ततश्शातकर्णिस्तश्शिवस्वातिस्ततश्च गोमतिपुत्रस्तत्पुत्रोऽलिमान्
तस्यापि शांतकर्णिस्ततः शिविश्रितस्तश्च शिवस्कंधस्तस्मादपि यज्ञश्रीस्ततो द्वियज्ञस्तस्माच्चंद्र श्रीः
तस्मात्पुलोमापिहि
एवमेवे त्रिंशच्चत्वार्यब्दशतानि षट्पंचाशदधिकानि पृथिवीं भोक्ष्यंति
आंध्रभृत्यास्सप्ताभीरप्रभृतयो दशगर्दभिनश्च भूभुजो भविष्यंति
ततष्षोडश भूपतयो भवितारः
ततश्चाष्टौ यवनाश्चतुर्दश तुरुष्कारा मुंडाश्च त्रयोदश एकादश मौना एते वै पृथुवीपतयः पृथिवीं दशवर्षशतानि नवत्यधिकानि भोक्ष्यंति
ततश्च मौना एकादश भूपतयोऽब्दशतानि त्रीणि पृथिवीं भोक्ष्यंति
तेषूत्सन्नेषु कैंकिला यवना भूपतयो भविष्यंत्यमूर्द्धाभिषिक्ताः
तेषामपत्यं विंध्यशक्तिस्ततः पुंरजयस्तस्माद्रा मचंद्र स्तस्माद्धर्मवर्मा ततो वंगस्ततोभून्नंदनस्ततस्सुनंदी तद्भ्राता नंदियशाश्शुक्रः प्रवीर एते वर्षशतं षड्वर्षाणि भूपतयो भविष्यंति
ततस्तत्पुत्रास्त्रयोदशैते बाह्लिकाश्च त्रयः
ततः पुष्पमित्राः पटुमियत्रास्त्रयोदशैकलाश्च सप्तांध्राः
ततश्च कोसलायां तु नव चैव भूपतयो भविष्यंति
नैषधास्तु त एव
मगधायां तु विश्वस्फटिकसंज्ञोऽन्यान्वर्णान्करिष्यति
कैवर्त्तबटुपुलिंदब्राह्मणान्राज्ये स्थपयिष्यति
उत्साद्याखिलक्षत्रजातिं नव नागाः पद्मवत्यां नाम पुर्यामनुगंगाप्रयागं गयाद्गुप्तांश्च मागधा भोक्ष्यंति
कोशलांध्रपुंड्रताम्रलिप्तसमतटपुरीं च देवरक्षितो रक्षिता
कलिंगमाहिषमहेंद्र भौमान् गुहा भोक्ष्यंति
नैषधनैमिषककालकोशकाञ्जनपदान्मणिधान्यकवंशा भोक्ष्यंति
त्रैराज्यमुषिकजनपदान्कनकाह्वयचो भोक्ष्यति