इत्येतेष्टत्रिंशदुत्तरमष्टशतं पंच प्रद्योताः पृथिवीं भोक्ष्यन्ति
ततश्च शिशुनाभः
तत्पुत्रः काकवर्णो भविता
तस्य च पुत्रः क्षेमधर्मा
तस्यापि क्षतौजाः
तत्पुत्रो विधिसारः
ततश्चाजातशत्रुः
तस्मादर्भकः
तस्माच्चोदयनः
तस्मादपि नंदिवर्द्धनः
ततो महानंदी
इत्येते शैशनाभा भूपालास्त्रीणि वर्षशतानि द्विषष्ट्यधिकानि भविष्यंति
महानंदिनस्ततश्शूद्रा गर्भोद्भवोतिलुब्धोतिबलो महापद्मनामा नंदः परशुराम इवापरोऽखिलक्षत्रांतकारी भविष्यति
ततः प्रभृति शूद्रा भूपाला भविष्यंति
स चैकच्छत्रामनुल्लंघितशासनो महापद्मः पृथिवीं भोक्ष्यते
तस्याप्यष्टौ सुतास्सुमाल्याद्य भवितारः
तस्य महापद्मस्यानुपृथिवीं भोक्ष्यंति
महापद्मपुत्राश्चैकं वर्षशतमवनीपतयो भविष्यंति
ततश्च नवचैतान्नंदान् कौटिल्यो ब्राह्मणस्समुद्धरिष्यति
तेषामभावे मौर्व्याः पृथिवीं भोक्ष्यंति
कौटिल्य एव चंद्र गुप्तसुत्पन्नं राज्येऽभिषेक्ष्यति
तस्यापि पुत्रो बिंदुसारो भविष्यति
तस्याप्यशोकवर्द्धनस्ततस्सुयशास्ततश्च दशरथस्ततश्च संयुतस्ततश्शालिशूकस्तस्मात्सोमशर्मा तस्यापि सोमशर्मणश्शतधन्वा
तस्यानुबृहद्र थनामा भविता
एवमेते मौर्य्या दश भूपतयो भविष्यंति अब्दशतं सप्तत्रिंशदुत्तरम्
तेषामंते पृथिवीं दश शुंगा भोक्ष्यंति
पुष्यमित्रस्सेनापतिस्स्वामिनं हत्वा राज्यं करिष्यति तस्यात्मजोऽग्निमित्रः
तस्मात्सुज्येष्ठस्ततो वसुमित्रस्तस्मादप्युदंकस्ततः पुलिंदकस्ततो घोषवसुस्तस्मादपि वज्रमित्रस्ततो भागवतः
तस्माद्देवभूतिः
इत्येते शुंगा द्वादशोत्तरं वर्षशतं पृथिवीं भोक्ष्यंति