यावद्देवापिर्न पतनादिभिर् दोषैरभिभूयते तावदेतत्तस्यार्हं राज्यम् ॥ ४,२०.
तदलमेतेन तु तस्मै दीयतामित्युक्ते तस्यं मन्त्रिप्रवरेणाश्मराविणा तत्रारण्ये तपस्विनो वेदवादविरोधवक्तारः प्रयुक्ताः ॥ ४,२०.
तैरस्याप्यतिऋजुमतेर्महीपतिपुत्रस्य बुद्धिर्वेदवादविरोधमार्गानुसारिण्यक्रियत ॥ ४,२०.
राजा च शन्तनुर्द्विजवचनोत्पन्नपरिदेवनशोकस्तान् ब्राह्मणानग्रतः कृत्वाग्रजस्य प्रदानायारण्यं जगाम ॥ ४,२०.
तदाश्रममुपगताश्च तमवनतमवनीपतिपुत्रं देवापिमुपतस्थुः ॥ ४,२०.
ते ब्राह्मणा वेदवादानुबन्धीनि वचांसि राज्यमग्रजेन कर्तव्यमित्यर्थवन्ति तमूचुः ॥ ४,२०.
असावपि देवापिर्वेदवादविरोधयुक्तिदूषितमनेकप्रकारं तानाह ॥ ४,२०.
ततस्ते ब्राह्मणाः शन्तनुमूचुः ॥ ४,२०.
आगच्छ हे राजन्नलमत्रातिनिर्बधेन प्रशान्त एवासावना वृष्टिदोषः पतितोयमनादिकालमभिहितवेदवचनदूषणोच्चरणात् ॥ ४,२०.
पतिते चाग्रजे नैव ते परिवेतृत्वं भवतीत्युक्तः शन्तनुःस्वपुरमागम्य राज्यमकरोत् ॥ ४,२०.
वेदवादविरोधवचनोच्चारणदूषिते च तस्मिन्देवापौ तिष्ठत्यपि ज्येष्ठभ्रातर्यखिलसस्यनिष्पत्तये ववर्ष भगवान्पर्जन्यः ॥ ४,२०.
बाह्लीकात्सोमदत्तः पुत्रोऽभूत् ॥ ४,२०.
सोमदत्तस्यापि भूरिभूरिश्रवशल्यसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ४,२०.
शन्तनोरप्यमरनद्यां जाह्नव्यामुदारकीर्तिरशेषशास्त्रर्थविद्भीष्मः पुत्रोऽभूत् ॥ ४,२०.
सत्यवत्यां च चित्राङ्गदविचित्रवीर्यौ द्वौ पुत्रावुत्पादयामास शन्तनुः ॥ ४,२०.
चित्राङ्गदस्तु बाल एव चित्राङ्गदेनैव गन्धर्वोणाहवे निहतः ॥ ४,२०.
विचित्रवीर्योऽपि काशीराजतनये अंबांवालिके उपयेमे ॥ ४,२०.
तदुपभोगातिखेदाच्च यक्ष्मणा गृहीतः स पञ्चत्वमगमत् ॥ ४,२०.
सत्यवतीनियोगाच्च मत्पुत्रः कृष्णद्वैपायनो मातुर्वचनमनतिक्रमणीयमिति कृत्वा विचित्रवीर्यक्षेत्रे धृतराष्ट्रपाण्डुतत्प्रहितभुजिष्यायां विदुरं चोत्पादयामास ॥ ४,२०.
धतराष्ट्रोपि गान्धार्यां दुर्योधनदुः शासनप्रधानं पुत्रशतमुत्पादयामास ॥ ४,२०.
पाण्ढोरप्यरण्ये मृगयायामृषिशापोपहतप्रजाजननसामर्थ्यस्य धर्मवायुशक्रैर्युधिष्ठिरभीमसेनार्जुनाः कुन्त्यां नकुलसहदेवौ चाश्विभ्यां माद्रयां पञ्चपुत्राःसमुत्पादिताः ॥ ४,२०.
तेषां च द्रौपद्यां पञ्चैव बभूवुः ॥ ४,२०.
युधिष्ठिरात्प्रतिविन्ध्यः भीमसेनाच्छुतसेनः श्रुतकीर्तिरर्जुनाच्छुतानीको नकुलाच्छुतकर्मा सहदेवात् ॥ ४,२०.
काशी च भीमसेनादेव सर्वगं सुतमवाप ॥ ४,२०.
यौधेयी युधिष्छिराद्देवकं पुत्रमवाप ॥ ४,२०.
हिडिंबा घटोत्कचं भीमसेनात्पुत्रं लेभे ॥ ४,२०.
काशी च भीमसेनादेव सर्वगं सुतमवाप ॥ ४,२०.
सहदेवाच्च विजयी कुहोत्रं पुत्रमवाप ॥ ४,२०.
रेणुमत्यां च नकुलोपि निरमित्रमजीजनत् ॥ ४,२०.
अर्जुनस्याप्युलूप्यां नागकन्यायामिरावान्नाम पुत्रोऽभवत् ॥ ४,२०.