तस्य संवरणः
संवरणात्कुरुः
य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार
सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः पुत्राः बभूवुः
सुधनुषः पुत्रस्सुहोत्रस्तस्माच्च्यवनः च्यवनात्कृतकः
ततश्चोपरिचरो वसुः
बृहद्र थप्रत्यग्रकुशांबकुचेलमात्स्यप्रमुखाः वसोः पुत्रास्सप्ताजायंत
बृहद्र थात्कुशाग्रः कुशाग्राद्वृषभः वृषभात्पुष्पवान् तस्मात्सत्यहितः तस्मात्सुधन्वा तस्य च जतुः
बृंहद्र थाच्चान्यश्शकलद्वयजन्मा जरया संधितो जरासंधनामा
तस्मात्सहदेवस्सहदेवात्सोमपस्ततश्च श्रुतिश्रवाः
इत्येते मया मागधा भूपालाः कथिताः
श्रीपराशर उवाच परीक्षितश्च जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चात्वारः पुत्राः ॥ ४,२०.
जह्नोस्तु सुरथोनामात्मजो बभूव ॥ ४,२०.
तस्यापि विदूरथः ॥ ४,२०.
तस्मात्सार्वभोमःसार्वभौमाज्जयत्सेनस्तस्मादाराधितस्ततश्चायुतायुरयुतायोरक्रोधनः ॥ ४,२०.
तस्माद्देवातिथिः ॥ ४,२०.
ततश्च ऋक्षोऽन्योभवत् ॥ ४,२०.
ऋक्षाद्भीमसेनस्ततश्च दिलीपः ॥ ४,२०.
दिलीपात्प्रतीपः ॥ ४,२०.
तस्यापि देवापिशन्तनुबाह्लीकसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ४,२०.
देवापिर्बाल एवारण्यं विवेश ॥ ४,२०.
शन्तनुस्तु महीपालोऽभूत् ॥ ४,२०.
अयं च तस्य श्लोकः पृथिव्यां गीयते ॥ ४,२०.
यंयं कराभ्यां स्पृशति वीर्णं यौवनमेति सः । शान्तिं चाप्नोति येनाग्र्यां कर्मणा तेन शन्तनुः ॥ ४,२०.
तस्य च शन्तनोर्राष्ट्रे द्वादशवर्षाणि देवो न ववर्ष ॥ ४,२०.
ततश्चाशेषराष्ट्रविनाशमवेक्ष्यासौ राजा ब्राह्मणानपृच्छत्कस्मादस्माकं राष्ट्रे देवो न वर्षति को ममापराध इति ॥ ४,२०.
ततश्च तमूचुर्ब्राह्मणाः ॥ ४,२०.
अग्रजस्य ते हीयमवनिस्त्वया संभुज्यते अतः परिवेत्ता त्वमित्युक्तःस राजा पुनस्तानपृच्छत् ॥ ४,२०.
किं मयात्र विधेयमिति ॥ ४,२०.
ततस्ते पुनरप्यूचुः ॥ ४,२०.