यश्शुकदुहितरं कीर्त्तिं नामोपयेमे
अणुहाद्ब्रह्यदत्तः
ततश्च विष्वक्सेनस्तस्मादुदक्सेनः
भल्लाभस्तस्य चात्मजः
द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः
तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश्च दृढनेमिस्तस्माच्च सुपार्श्वस्ततस्सुमतिस्ततश्च सन्नतिमान्
सन्नतिमतः कृतः पुत्रोऽभूत्
यं हिरण्यनाभो योगमध्यापयामास
यश्चतुर्विंशतिप्राच्यसामागानां संहिताश्चकार
कृताच्चोग्रायुधः
येन प्राचुर्येण नीपक्षयः कृतः
उग्रायुधात्क्षेम्यः क्षेम्यात्सुधीरस्तस्माद्रि पुंजयः तस्माच्च बहुरथ इत्येते पौरवाः
अजमीढस्य नलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्रोऽभवत्
तस्मादपि शांतिः शांतेस्सुशांतिस्सुशांतेः पुरंजयः तस्माच्च ऋक्षः
ततश्च हर्यश्वः
तस्मान्मुद्गलसृंजयबृहदिषुयवीनरकांपिल्यसंज्ञाः पंचानामेव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पांचालाः
मुद्गलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः
मुद्गलाद्धर्यश्वः
हर्यश्वाद्दिवोदासोऽहल्या च मिथुनमभूत्
शरद्वतश्चाहल्यायां शतानंदोऽभवत्
शतानंदात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे
सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तंबे पपात
तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत्
तौ च मृगयामुपयातश्शंतनुर्दृष्ट्वा कृपया जग्राह
ततः कुमारः कृपः कन्या चाश्वत्थाम्नो जननी कृपी द्रो णाचार्यस्य पत्न्यभवत्
दिवोदासस्य पुत्रो मित्रायुः
मित्रायोश्च्यवनो नाम राजा
च्यवनात्सुदासः सुदासात्सौदासः सौदासात्सहदेवस्तस्यापि सोमकः
सोमकाज्जंतुः पुत्रशतज्येष्ठोऽभवत्
तेषां यवीयान् पृषतः पृषताद्द्रु पदस्तस्माच्च धृष्टद्युम्नस्ततो धृष्टकेतुः ७३ अजमीढस्यान्यो ऋक्षनामा पुत्रोऽभवत्