बृहदिषोर्बृहद्धनुर्बृहद्धनुषश्च बृहत्कर्मा ततश्च जयद्र थस्तस्मादपिविश्वजित्
ततश्च सेनजित्
रुचिराश्वकाश्यदृढहनुवत्सहनुसंज्ञास्सेनजितः पुत्राः
रुचिराश्वपुत्रः पृथुसेनः पृथुसेनात्पारः
पारान्नीलः
तस्यैकशतं पुत्राणाम्
तेषां प्रधानः कांपिल्याधिपतिस्समरः
समरस्यापि पारसुपारसदश्वास्त्रयः पुत्राः
सुपारात्पृथुः पृथोस्सुकृतेर्विभ्राजः
तस्माच्चाणुहः
यश्शुकदुहितरं कीर्त्तिं नामोपयेमे
अणुहाद्ब्रह्यदत्तः
ततश्च विष्वक्सेनस्तस्मादुदक्सेनः
भल्लाभस्तस्य चात्मजः
द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः
तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश्च दृढनेमिस्तस्माच्च सुपार्श्वस्ततस्सुमतिस्ततश्च सन्नतिमान्
सन्नतिमतः कृतः पुत्रोऽभूत्
यं हिरण्यनाभो योगमध्यापयामास
यश्चतुर्विंशतिप्राच्यसामागानां संहिताश्चकार
कृताच्चोग्रायुधः
येन प्राचुर्येण नीपक्षयः कृतः
उग्रायुधात्क्षेम्यः क्षेम्यात्सुधीरस्तस्माद्रि पुंजयः तस्माच्च बहुरथ इत्येते पौरवाः
अजमीढस्य नलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्रोऽभवत्
तस्मादपि शांतिः शांतेस्सुशांतिस्सुशांतेः पुरंजयः तस्माच्च ऋक्षः
ततश्च हर्यश्वः
तस्मान्मुद्गलसृंजयबृहदिषुयवीनरकांपिल्यसंज्ञाः पंचानामेव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पांचालाः
मुद्गलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः
मुद्गलाद्धर्यश्वः
हर्यश्वाद्दिवोदासोऽहल्या च मिथुनमभूत्
शरद्वतश्चाहल्यायां शतानंदोऽभवत्