प्रेतदेहं शुभैः स्नानैस्स्नापितं स्रग्विभूषितम् । दग्ध्वा ग्रामाद्बहिः स्नात्वा सचैलस्सलिलाशये
यत्र तत्र स्थितायैतदमुकायेति वादिनः । दक्षिणाभिमुखा दद्युर्बान्धवास्सलिलाञ्जलीन्
प्रविष्टाश्च समं गोभिर्ग्रामं नक्षत्रदर्शने । कटकर्म ततः कुर्युर्भूमौ प्रस्तरशायिनः
दातव्योऽनुदिनं पिण्डः प्रेताय भुवि पार्थिव । दिवा च भक्तं भोक्तव्यममांसं मनुजर्षभ
दिनानि तानि चेच्छातः कर्त्तव्यं विप्रभोजनम् । प्रेता यान्ति तथा तृप्तिं बन्धुवर्गेण भुञ्जता
प्रथमेऽह्नि तृतीये च सप्तमे नवमे तथा । वस्त्रत्यागबहिस्स्नाने कृत्वा दद्यात्तिलोदकम्
चतुर्थेऽह्नि च कर्त्तव्यं तस्यास्थिचयनं नृप । तदूर्ध्वमङ्गसंस्पर्शः सपिण्डानामपीष्यते
योग्यास्सर्वक्रियाणां तु समानसलिलास्तथा । अनुलेपनपुष्पादिभोगादन्यत्र पार्थिव
शय्यासनोपभोगश्च सपिण्डानामपीष्यते । भस्मास्थिचयनादूर्ध्वं संयोगो न तु योषिताम्
बाले देशान्तरस्थे च पतिते च मुनौ मृते । सद्यश्शौचं तथेच्छातो जलाग्न्युद्बन्धनादिषु
मृतबन्धोर्दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते
विप्रस्यैतद् द्वादशाहं राजन्यस्याप्यशौचकम् । अर्धमासं तु वैश्यस्य मासं शूद्रस्य शुद्धये
अयुजो भोजयेत् कामं द्विजानन्ते ततो दिने । दद्याद्दर्भेषु पिण्डं च प्रेतायोच्छिष्टसन्निधौ
वार्यायुधप्रतोदास्तु दण्डश्च द्विजभोजनात् । स्प्रष्टव्योऽनन्तरं वर्णैः शुद्धेरन्ते ततः क्रमात्
ततस्स्ववर्णधर्मा ये विप्रादीनामुदाहृताः । तान् कुर्वीत पुमाञ्जीवेन्निजधर्मार्जनैस्तथा
मृताहनि च कर्तव्यमेकोद्दिष्टमतः परम् । आह्वानादिक्रियादैवनियोगरहितं हि तत्
एकोर्घ्यस्तत्र दातव्यस्तथैवैकपवित्रकम् प्रेताय पिंडो दातव्यो भुक्तवत्सु द्विजातिषु २४ प्रश्नश्च तत्राभिरतिर्यजमानद्विजन्मनाम् अक्षय्यममुकस्येति वक्तव्यं विरतौ तथा २५ एकोद्दिष्टमयो धर्म इत्थमावत्सरात्स्मृतः सपिंडीकरणं तस्मिन्काले राजेंद्र तच्छृणु २६ एकोद्दिष्टविधानेन कार्यं तदपि पार्थिव संवत्सरेथ षष्ठे वा मासे वा द्वादशो!ह्नि तत् २७ तिलगंधोदकैर्युक्तं तत्र पात्रचतुष्टयम् २८ पात्रं प्रेतस्य तत्रैकं पैत्रं पात्रत्रयं तथा सेचयेत्पितृपात्रेषु प्रेतपात्रं ततस्त्रिषु २९ ततः पितृत्वमापन्ने तस्मिन्प्रेते महीपते श्राद्धधर्मैरशेषैस्तु तत्पूर्वानर्चयेत्पितॄन् ३० पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसंततिः सपिंड संततिर्वापि क्रियार्हो नृप जायते ३१ तेषामभावे सर्वेषां समानोदकसंततिः मातृपक्षमपिंडेन संबंधा ये जलेन वा ३२ कुलद्वयेपि चोच्छिन्ने स्त्रीभिः कार्याः क्रिया नृप पितृमातृसपिंडैस्तु समानसलिलैस्तथा ३३ संघातांतर्गतैर्वापि कार्याः प्रेतस्य च क्रियाः उत्सन्नबंधुरिक्थाद्वा कारयेदवनीपतिः ३४ पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः त्रिःप्रकाराः क्रियास्सर्वास्तासां भेदं शृणुष्व मे ३५ आदाहाद्द्वाशाहाश्च स्पर्शाद्यंतास्तु याः क्रियाः ताः पूर्वा मध्यमा मासि मास्येकोद्दिष्टसंज्ञिताः ३६ प्रेते पितृत्वमापन्ने सपिंडिकरणादनु क्रियंते याः क्रियाः पित्र्याः प्रोच्यंते ता नृपोत्तराः ३७ पितृमातृसपिण्डैस्तु समानसलिलैस्तथा । सङ्घातान्तर्गतैर्वापि राज्ञा तद्धनहारिणा
पूर्वाः क्रियाश्च कर्त्तव्याः पुत्राद्यैरेव चोत्तराः । दौहित्रैर्वा नृपश्रेष्ठ कार्यास्तत्तनयैस्तथा
मृताहनि च कर्त्तव्याः स्त्रीणामप्युत्तराः क्रियाः । प्रतिसंवत्सरं राजन्नेकोद्दिष्टविधानतः
तस्मादुत्तरसंज्ञायाः क्रियास्ताः शृणु पार्थिव । यथा यथा च कर्त्तव्या विधिना येन चानघ
और्व उवाच (श्राद्धफलश्रुति-विशेषश्राद्धफल-पितृगीतावर्णनम्) और्व उवाच ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् । विश्वेदेवान्पितृगणान्वयांसि मनुजान्पशून्
सरीसृपानृषिगणान्यच्चान्यद्भूतसंज्ञितम् , श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत्
मासि मास्यसिते पक्षे पञ्चदश्यां नरेश्वर । तथाष्टकासु कुर्वीत काम्यान्कालाञ्छृणुष्व मे
श्राद्धार्हमागतं द्रव्यं विशिष्टमथ वा द्विजम् । श्राद्धं कुर्वीत विज्ञाय व्यतीपातेऽयने तथा
विषुवे चापि सम्प्राप्ते ग्रहणे शशिसूर्ययोः । समस्तेष्वेव भूपाल राशिष्वर्के च गच्छति
नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने । इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा
अमावास्या यदा मैत्रविशाखास्वातियोगिनी । श्राद्धैः पितृगणस्तृप्तिं तथाप्नोत्यष्टवार्षिकीम्
अमावास्या यदा पुष्ये रौद्रे चर्क्षे पुनर्वसौ । द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरोऽर्चिताः
वासवाजैकपादर्क्षे पितॄणां तृप्तिमिच्छताम् । वारुणे वाप्यमावास्या देवानामपि दुर्लभा
नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते । तदा हि तृप्तिदं श्राद्धं पितॄणां शृणु चापरम्