सुमतिमप्रतिरथं ध्रुवं चाप्यंतिनारः पुत्रानवाप
अप्रतिरथस्य कण्वः पुत्रोऽभूत्
तस्यापि मेधातिथिः
यतः कण्वायना द्विजा बभूवुः
अप्रतिरथस्यापरः पुत्रोऽभूदैलीनः
ऐलीनस्य दुष्यंताद्याश्चत्वारः पुत्रा बभूवुः
दुष्यंताच्चक्रवर्त्ती भरतोऽभूत्
यन्नामहेतुर्देवैश्श्लोको गीयते
माता भस्त्र पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुष्यंतमावमंस्थाश्शकुंतलाम्
रेतोधाः पुत्रो नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुंतला
भरतस्य पत्नित्रये नव पुत्रा बभूवुः
नैते ममानुरूपा इत्यभिहितास्तन्मातरः परित्यागभयात्तत्पुत्राञ्जघ्नुः
ततोस्य वितथे पुत्रजन्मनि पुत्रार्थिनो मरुत्सोमयाजिनो दीर्घतमसः पार्ष्ण्यपास्तद्बृहस्पतिवीर्यादुतथ्यपत्न्यां ममतायां समुत्पन्नो भरद्वाजाख्यः पुत्रो मरुद्भिर्दत्तः
तस्यापि नामनिर्वचनश्लोकः पठ्यते
मूढे भर द्वाजमिमं भरद्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् इति
भरद्वाजस्स तस्य वितथे पुत्रजन्मनि मरुद्भिर्दत्तः ततो वितथसंज्ञामवाप
वितथस्यापि मन्युः पुत्रोऽभवत्
बृहत्क्षत्रमहावीर्यनगरगर्गा अभवन्मन्युपुत्राः
नगरस्य संकृतिस्संकृतेर्गुरुप्रीतिरंतिदेवौ
गर्गाच्छिनिः ततश्च गार्ग्याश्शैन्याः क्षत्रोपेता द्विजातयो बभूवु
महावीर्याच्च दुरुक्षयो नाम पुत्रोऽभवत्
तस्य त्रय्यारुणिः पुष्करिणः कपिश्च पुत्रत्रयमभूत्
तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम
बृहत्क्षत्रस्य सुहोत्रः
सुहोत्राद्धस्ती य इदं हस्तिनपुरमावासयामास
अजमीढद्विजमीढपुरुमीढास्त्रयो हस्तिनस्तनयाः
अजमीढात्कण्वः
कण्वान्मेधातिथिः
यतः कण्वायना द्विजाः
अजमीढस्यान्यः पुत्रो बृहदिषुः