तस्यामस्य वज्रो जज्ञे ॥ ४,१५.
वज्रस्य प्रतिबाहुः तस्यापि सुचारुः ॥ ४,१५.
एवमनेकशतसहस्६ उषसंख्यस्य यदुकुलस्य पुत्रसंख्या वर्षशतैरपि वक्तुं न शक्यते ॥ ४,१५.
यतो हि श्लोकाविमावत्र चरितार्थौ ॥ ४,१५.
तिस्त्रः कोट्यःसहस्राणामष्टाशीति शतानि च । कुमाराणां कृहाचार्याश्चापयोगेषु ये रताः ॥ ४,१५.
संख्यानं यादवानां कः करिष्यति महात्मनाम् । यत्रायुतानामयुतलक्षेणास्ते सदाहुकः ॥ ४,१५.
देवासुरे हता ये तु दैतेयास्सुमहाबला:। उत्पन्नास्ते मनुष्येषु जनोपद्रवकारिण:।।४,१५,
तेषामुत्सादनार्थाय भुविदेवा यदो:कुले। अवतीर्णा:कुलशतं यत्रैकाभ्यधिकं द्विज:॥ ४,१५,
उत्पन्नास्ते मनुष्येषु प्रमाणे च प्रभुत्वे च व्यवस्थितः। निदेशस्थायिनस्तस्य ववृधुः सर्वयादवाः ॥ ४,१५.
इति प्रसूतिं वृष्णीनां यश्र्शृणोति नरः सदा । स सर्वैः पातकैर्मुक्तो विष्णुलोकं प्रपद्यते ॥ ४,१५.
पराशर उवाच । इत्येष समासतस्ते कथितः, तूर्व्वसोर्वशमवधारय ।। ४-१६-
तुर्व्वसोर्वह्रिरात्मजः, वह्रर्गोभानुः त्रैशाम्बः, तस्माज्व करन्धमः, तस्मादपि ततश्व मरुत्तः, सोऽनपत्योऽभवत् । ततश्व पौरवं दुष्मन्त पुत्रमकल्पयत् । एवं ययातिशापात् तद्वंशः पौरवं वंशमाश्रितवान् ।। ४-१६-
श्रीपराशर उवाच द्रुह्योस्तु तनयो बभ्रुः ॥ ४,१७.
बभ्रोःसेतुः ॥ ४,१७.
सेतुपुत्र आरब्धनामा ॥ ४,१७.
आरब्धस्यात्मजो गान्धारः गान्धारस्य धर्मः धर्मात्घृतः घृतात्दुर्दमः ततः प्रचेताः ॥ ४,१७.
प्रचेतसः पुत्रः शतधर्मः बहुलानां म्लेछानामुदीच्यानामाधिपत्यमकरोत् ॥ ४,१७.
श्रीपराशर उवाच । पूरोर्जनमेजयस्तस्यापि प्रचिन्वान् प्रचिन्वतः प्रवीरः प्रवीरान्मनस्युर्मनस्योश्चाभयदः तस्यापि सुद्युस्सुद्यो र्बहुगतः तस्यापि संयातिस्संयातेरहंयातिः ततो रौद्रा श्वः
ऋतेषुकक्षेषुस्थंडिलेषुकृतेषुजलेषुधर्मेषुधृतेषुस्थलेषुसन्नतेषुवनेषुनामानो रौद्रा श्वस्य दश पुत्रा बभूवुः
ऋतेषोरंतिनारः पुत्रोऽभूत्
सुमतिमप्रतिरथं ध्रुवं चाप्यंतिनारः पुत्रानवाप
अप्रतिरथस्य कण्वः पुत्रोऽभूत्
तस्यापि मेधातिथिः
यतः कण्वायना द्विजा बभूवुः
अप्रतिरथस्यापरः पुत्रोऽभूदैलीनः
ऐलीनस्य दुष्यंताद्याश्चत्वारः पुत्रा बभूवुः
दुष्यंताच्चक्रवर्त्ती भरतोऽभूत्
यन्नामहेतुर्देवैश्श्लोको गीयते
माता भस्त्र पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुष्यंतमावमंस्थाश्शकुंतलाम्
रेतोधाः पुत्रो नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुंतला