सार्ष्टिमार्ष्टिशिशुसत्यसत्यधृतिप्रमुखाः सारणात्मजाः ॥ ४,१५.
भद्राश्वभद्रबाहुदुर्दमभूताद्याः रोहिण्याः कुलजाः ॥ ४,१५.
नन्दोपनन्दकृतकाद्य मदिरायास्तनयाः ॥ ४,१५.
भद्रायाश्चोपनिधिगदाद्याः ॥ ४,१५.
वैशाल्यां च कौशिकमेकमेवाजनयत् ॥ ४,१५.
आनकदुन्दुभेर्देवक्यामपि कीर्तिमत्सुषेणोदायुभद्रसेनऋजुदासभद्रदेवाख्याः षट्पुत्रा जज्ञिरे ॥ ४,१५.
तांश्च सर्वानेव कंसोघातितवान् ॥ ४,१५.
अनन्तरं च सप्तमं गर्भमर्धरात्रे भगवत्प्रहितायोगनिद्रा रोहिण्या जठरमाकृष्य नीतवती ॥ ४,१५.
कर्षणाच्चासावपि संकर्षणाख्यामगमत् ॥ ४,१५.
ततश्च सकलजगन्महातरुमूलभूतोभूतभविष्यदादिसकलसुरासुरमुनिजनमनसामप्यगोचरोऽब्जभवप्रमुखैरनलमुखैः प्रणम्यावनिभारहरणाय प्रसादितो भगवाननादिमध्यनिधनोदेवकीगर्भमवततार वासुदेवः ॥ ४,१५.
तत्प्रसादविवद्धमानोरुमहिमा च योगनिद्रा नन्दगोपपत्न्या यशोदाया गर्भमधितिष्ठितवती ॥ ४,१५.
सुप्रसन्नादित्यचन्द्रादिग्रहमव्यालादिभयं स्वस्थमानसमखिलमेवैतज्जगदपास्ताधर्ममभवत्त्स्मिश्च पुण्डरीकनयने जायमाने ॥ ४,१५.
जातेन च तेनाखिलमेवैतत्सन्मार्गवर्ति जगदक्रियत ॥ ४,१५.
भगवतोप्यत्र मर्त्यलोकेऽवतीर्णस्य षोडशसहस्राण्येकोत्तरशताधिकानि भार्याणाम भवन् ॥ ४,१५.
तासां च रुक्मिणी सत्यभामा जांबवती चारुहासिनीप्रमुखा ह्यष्टौ पत्न्यः प्रधाना बभूचवुः ॥ ४,१५.
तासु चाष्टावयुतानिलक्षं च पुत्राणां भगवानखिलमूर्तिरनादिमानजनयत् ॥ ४,१५.
तेषां च प्रद्युम्नचारुदेष्ण्यसांबादयः त्रयोदश प्रधानाः ॥ ४,१५.
प्रद्युम्नोपि रुक्मिणस्तनयां रुक्मवतीं नामोपयेमे ॥ ४,१५.
तस्यामनिरुद्धो जज्ञे ॥ ४,१५.
अनिरुद्धोऽपि रुक्मिणा एव पौत्रीं सुभद्रां नामो पयेमे ॥ ४,१५.
तस्यामस्य वज्रो जज्ञे ॥ ४,१५.
वज्रस्य प्रतिबाहुः तस्यापि सुचारुः ॥ ४,१५.
एवमनेकशतसहस्६ उषसंख्यस्य यदुकुलस्य पुत्रसंख्या वर्षशतैरपि वक्तुं न शक्यते ॥ ४,१५.
यतो हि श्लोकाविमावत्र चरितार्थौ ॥ ४,१५.
तिस्त्रः कोट्यःसहस्राणामष्टाशीति शतानि च । कुमाराणां कृहाचार्याश्चापयोगेषु ये रताः ॥ ४,१५.
संख्यानं यादवानां कः करिष्यति महात्मनाम् । यत्रायुतानामयुतलक्षेणास्ते सदाहुकः ॥ ४,१५.
देवासुरे हता ये तु दैतेयास्सुमहाबला:। उत्पन्नास्ते मनुष्येषु जनोपद्रवकारिण:।।४,१५,
तेषामुत्सादनार्थाय भुविदेवा यदो:कुले। अवतीर्णा:कुलशतं यत्रैकाभ्यधिकं द्विज:॥ ४,१५,
उत्पन्नास्ते मनुष्येषु प्रमाणे च प्रभुत्वे च व्यवस्थितः। निदेशस्थायिनस्तस्य ववृधुः सर्वयादवाः ॥ ४,१५.
इति प्रसूतिं वृष्णीनां यश्र्शृणोति नरः सदा । स सर्वैः पातकैर्मुक्तो विष्णुलोकं प्रपद्यते ॥ ४,१५.