श्रुतश्रवसमपि चेदिराजो दमघोषनामोपयेमे ॥ ४,१४.
तस्यां च शिशुपालमुत्पादयामास ॥ ४,१४.
स वा पूर्वमप्युदारविक्रमो दैत्यानामादिपुरुषो हिरण्यकशिपुरभवत् ॥ ४,१४.
यश्च भगवता सकललोकगुरुणा नारसिंहेन घातितः ॥ ४,१४.
पुनरपि अक्षयवीर्यशौर्यसंपत्पराक्रमगुणःसमाक्रान्तसकलत्रैलोकेश्वरप्रभावो दशाननो नामाभूत् ॥ ४,१४.
बहुकालोपभुक्तभगवत्सकाशावाप्तशरीरपातोद्भवपुण्यफलो भगवता राघवरूपिणा सोऽपि निधनमुपपादितः ॥ ४,१४.
पुनश्चेदिराजस्य दमघोषस्यात्मजः शिशु पालनामाभवत् ॥ ४,१४.
शिशुपालत्वेपि भगवतो भूभारावतारणायावतीर्णांशस्य पुण्डरीकनयनाख्यस्योपरि द्वेषानुबन्धमतितराञ्चकार ॥ ४,१४.
भगवता च स निधनमुपानीतस्तत्रैव परमात्मभूते मनस एकाग्रतया सायुज्यमवाप ॥ ४,१४.
भगवान् यदि प्रसन्नो यथाभिलषितं ददाति तथा अग्रसन्नोपि निघ्नन् दिव्यमनुपमं स्थानं प्रयच्छति ॥ ४,१४.
मैत्रेय उवाच हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना । अवाप निहतो भोगानप्राप्यानमरैरपि ॥ ४,१५.
न लयं तत्र तेनैव निहतः स कथं पुनः । संप्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥ ४,१५.
एतदिच्छाम्यहं श्रोतुं सर्वधर्मभृत्तां वर । कौतूहलपरेणैतत्पृष्टो मे वक्तुमर्हसि ॥ ४,१५.
श्रीपराशर उवाच दैत्येश्वरस्य वधायाशिललोकोत्पत्तिस्थितिविनाशकारिणा पूर्वं तनुग्रहणं कुर्वता नृसिंह रूपमाविष्कृतम् ॥ ४,१५.
तत्र च हिरण्यकशिपोर्विष्णुरयमित्येतन्न मनस्यभूत् ॥ ४,१५.
निरतिशयपुण्यसमुद्भूतमेतत्सत्त्वाजातमिति ॥ ४,१५.
रजोद्रेकप्रेरितैकाग्रमतिस्तद्भावनायोगात्ततोवाप्तवधहैतुकीं निरतिशयामेवाखिलत्रैलोक्यकारीणीं दशाननत्वे भोगसंपदमवाप ॥ ४,१५.
न तु स तस्मिन्ननादिनिधने परब्रह्मभूते भगवत्यनालंबिनि कृते मनसस्तल्लयमवाप ॥ ४,१५.
एवं दशाननत्वेप्यनङ्गपराधीनतया जानकीसमासक्तचेतसा भगवता दाशरथि रूपधारिणा हतस्य तद्रूपदर्शनमेवासीत्नायमच्युत इत्यासक्तिर्विपद्यतोन्तःकरणे मानुषबुद्धिरेव केवलमस्याभूत् ॥ ४,१५.
पुनरप्यच्युतविनिपातमात्रफलमखिलभूमण्डलश्लाघ्यचेदिराजकुले जन्म अव्याहतैश्वर्यं शिशुपालत्वेप्यवाप ॥ ४,१५.
तत्र त्वखिलानामेव स भगवन्नाम्नां त्वङ्कारकारणमभवत् ॥ ४,१५.
ततश्च तत्कालकृतानां तेषामशेषणामेवाच्युतनाम्नामनवरतमनेकजन्मसु वर्धितविद्वेषानुबन्धिचित्तो विनिन्दनसंतर्जनादिषूच्चारणमकरोत् ॥ ४,१५.
तच्च रूपमुत्फुल्लपद्मदलामलाक्षिमत्युज्ज्वलपीतवस्त्रधार्यमलकिरिटकेयूरहारकटकादिशोभितमुदारचतुर्बाहुशङ्खचक्रगदाधरमतिप्ररूढवैरानुभावादटनभोजनस्नानासनशयनादिष्वशेषावस्थान्तरेषु नान्यत्रोपययावस्य चेतसः ॥ ४,१५.
ततस्तमेवाक्रोशेषूच्चारयंस्तमेव हृदयेन धारयन्नात्मवधाय यावद्भगवद्धस्तचक्रांशुमालोज्ज्वालमक्षयतेजःस्वरूपं ब्रह्मभूतमपगतद्वेषादिदोषं भगवन्तमद्राक्षीत् ॥ ४,१५.
तावच्च भगवच्चक्रेणाशु व्यापादितस्तत्स्मरणदग्धाखिलाघसंचयो भगवतान्तमुपनीतस्ततस्मिन्नेव लयमुपययौ ॥ ४,१५.
एतत्तवाखिलंमयाभिहितम् ॥ ४,१५.
अयं हि भगवान् कीर्तितश्च संस्मृतश्च द्वेषानुबन्धेनापि अखिलमुरासुरादिर्दुल्लभं फलं प्रयच्छति किमुत सम्यग्भक्तिमत्मिति ॥ ४,१५.
वसुदेवस्य त्वानकदुन्दुभेः पौरवीरोहिणीमदिराभद्रादेवकीप्रमुखा बह्व्यः पत्न्योऽभवन् ॥ ४,१५.
बलभद्रशठसारणदुर्मदादीन्पुत्रार्त्नोहिण्यानकदुन्दुभिरुत्पादयामास ॥ ४,१५.
बलदेवोपि रेवत्यां विशठोल्मुकौ पुत्रावजनयत् ॥ ४,१५.