अनोरानकदुन्दभिः ततश्चा भिजितभिजितः पुनर्वसुः ॥ ४,१४.
तस्याप्याहुकः आहुकी च कन्या ॥ ४,१४.
आहुकस्य देवकोग्रसेनौ द्वौ पुत्रौ ॥ ४,१४.
देववानुपदेवः सहदेवो देवरक्षिता च देवकस्य चत्वारः पुत्राः ॥ ४,१४.
तेषां वृकदेवोपदेवा देवरक्षिता श्रीदेवा शान्तिदेवा सहदेवा देवकी च सप्तभगिन्यः ॥ ४,१४.
ताश्च सर्वा वसुदेव उपयेमे ॥ ४,१४.
उग्रसेनस्यापि कंसन्यग्रोधसुनामानकाह्वशङ्कुसुभूमिराष्ट्रपालयुद्धतुष्टिसुतुष्टिंमत्संज्ञाः पुत्रा बभूवुः ॥ ४,१४.
कंसाकंसवतीसुतनूराष्ट्रपलिकाह्वाश्चोग्रसेनस्य तनूजाः कन्याः ॥ ४,१४.
भजमानाच्च विदूरथः पुत्रोऽभवत् ॥ ४,१४.
विदूरथाच्छूरः शुराच्छमी शमिनः प्रतिक्षत्रः तस्मात्स्वयंभोजः ततश्च हृदिकः ॥ ४,१४.
तस्यापि कृतवर्मशतधनुर्दवार्हदेवगर्भाद्याः पुत्रा बभूवुः ॥ ४,१४.
देवगर्भस्यापि शुरः ॥ ४,१४.
शुरस्यापि मारीषा नाम पत्न्यभवत् ॥ ४,१४.
तस्यां चासौ दशपुत्रानजनयद्वसुदेवरूर्वान् ॥ ४,१४.
वसुदेवस्य जातमात्रस्यैव तद्गृहे भगवदंशावतारमव्याहतदृष्ट्या पश्यद्भिर्देवैर्दिव्यानकदुन्दुभयो वादिताः ॥ ४,१४.
ततश्चसावानकदुन्दुभिसंज्ञामवाप ॥ ४,१४.
तस्य च देवभागदेवश्रवाष्टकककुच्चक्रवत्सधारकसृंजयश्यामशमिकगञ्जूषसंज्ञा नव भ्रतरोऽभवन् ॥ ४,१४.
पृथा श्रुतदेवा श्रुत कीर्तिः श्रुतश्रवा राजाधिदेवी च वसुदेदादीनां पञ्च भगिन्योऽभवन् ॥ ४,१४.
शुरस्य कुन्तिर्नाम सखाभवत् ॥ ४,१४.
तस्मै चापुत्राय पृथामात्मजां विधिना शुरो दत्तवान् ॥ ४,१४.
तां च पाण्डुरुवाह ॥ ४,१४.
तस्यां च धर्मानिलेन्द्रैर्युधिष्ठरभीमसेनार्जुनाख्यास्त्रयः पुत्राःसमुत्पादिताः ॥ ४,१४.
पूर्वमेवानूढायाश्च भगवता भास्वता कानीनः कर्णो नाम पुत्रोऽजन्यत ॥ ४,१४.
तस्याश्च सपत्नी माद्री नामाभूत् ॥ ४,१४.
तस्यां च नासत्यदस्त्राभ्यां नकुलसहदेवौ पाण्डोः पुत्रौ जनितौ ॥ ४,१४.
श्रुतदेवां तु वृद्धधर्मा नाम कारूश उवयेमे ॥ ४,१४.
तस्याञ्च च दन्तवक्रो नाम महासुरो जज्ञे ॥ ४,१४.
श्रुतकीर्तिमपि केकयराजा उपयेमे ॥ ४,१४.
तस्यां च संतर्दनादयः कैकेयाः पञ्च पुत्रा बभूवुः ॥ ४,१४.
राजाधिदेव्यमावन्त्यौ विन्दानुविन्दौ जज्ञाते ॥ ४,१४.