मुक्तमात्रे च तस्मिन्नतिकान्त्या तदखिलमास्थानमुद्योतितम्
अथाहाक्रुरः स एष मणिः शतधन्वनास्माकं समर्पितः यस्यायं स एनं गृह्णातु इति
तमालोक्य सर्वयादवानां साधुसाध्विति विस्मितमनसां वाचोऽश्रूयंत
तमालोक्यातीव बलभद्रो ममायमच्युतेनैव सामान्यस्समन्विच्छित इति कृतस्पृहोऽभूत्
ममैवायं पितृधनमित्यतीव च सत्यभामापि स्पृहयांचकार
बलसत्यावलोकनात्कृष्णोप्यात्मानं गोचक्रांतरावस्थितमिव मेने
सकलयादवसमक्षं चाक्रूरमाह
एतद्धि मणिरत्नमात्मसंशोधनाय एतेषां यदूनां मया दर्शितम् एतच्च मम बलभद्र स्य च सामान्यं पितृधनं चैतत्सत्यभामाया नान्यस्यैतत्
एतच्च सर्वकालं शुचिना ब्रह्मचर्यादिगुणवता ध्रियमाणमश्षोराष्ट्रस्योपकारकमशुचिना ध्रियमाणमाधारमेव हंति
अतोहमस्य षोडशस्त्रीसहस्रपरिग्रहादसमर्थो धारणे कथमेतत्सत्यभामा स्वीकरोति
आर्यबलभद्रेणापि मदिरापानाद्यश्षोओ!पभोगपरित्यागः कार्यः
तदलं यदुलोकोयं बलभद्रः अहं च सत्या च त्वां दानपते प्रार्थयामः
तद्भवानेव धारयितुं समर्थः
त्वद्धृतं चास्य राष्ट्रस्योपकारकं तद्भवानश्षोराष्ट्रनिमित्तमेतत्पूर्ववद्धारयत्वन्यन्न वक्तव्यमित्युक्तो दानपतिस्तथेत्याह जग्राह च तन्महारत्नम्
ततःप्रभृत्यक्रूरः प्रकटेनैव तेनातिजाज्ज्वल्यमानेनात्मकंठावसक्तेनादित्य इवांशुमाली चचार
इत्येतद्भगवतो मिथ्याभिशस्तिक्षालनं यः स्मरति न तस्य कदाचिदल्पापि मिथ्याभिशस्तिर्भवति अव्याहताखिलेंद्रि यश्चाखिलपापमोक्षमवाप्नोति
तत्र चास्य युध्यमानस्यातिश्वद्धादत्तविशिष्टपात्रोपयुक्तान्नतोयादिना कृष्णस्य बलप्राणपुष्टिरभूत ।। ४-१३-
श्रीपराशर उवाच अनमित्रस्य पुत्रः शिनिर्नामाभवत् ॥ ४,१४.
तस्यापि सत्यकः सत्यकात्सात्यकिर्युयुधानापरनामा ॥ ४,१४.
तस्मादपि संजयः तत्पुत्रश्च कुणिः कुणेर्युगन्धरः ॥ ४,१४.
इत्येते शैनेयाः ॥ ४,१४.
अनमित्रस्यान्वये वृष्णिः तस्मात्श्चफल्कः तत्प्रभावः काथेन एव ॥ ४,१४.
श्वफल्कस्यान्यः कनीयांश्चित्रकोनाम भ्राता ॥ ४,१४.
श्वफल्कादक्रूरो गान्दिन्यामभवत् ॥ ४,१४.
तथोपमद्गः ॥ ४,१४.
उपमद्गोर्मृदामृदविश्वारिमेजयगिरिक्षत्रोपक्षत्रशतघ्नारिमर्दनधर्मदृग्दृष्टधर्मगन्धमोजवाहप्रतिवाहाख्याः पुत्राःसुताराख्या कन्या च ॥ ४,१४.
देववानुपदेवश्चाक्रूरपुत्रौ ॥ ४,१४.
पृथुविपृथुप्रमुखाश्चित्रकस्य पुत्रा बहवो बभूवुः ॥ ४,१४.
कुकुरभजमानशुचिकंबलबर्हिषाख्यास्तथान्धकस्य चत्वारः पुत्राः ॥ ४,१४.
कुकुराद्धृष्टः तस्माच्च कपोतरोमा ततश्च विलोमा तस्मादपि तुंबुरसखोऽभवदनुसंज्ञश्च ॥ ४,१४.